________________
अनेकार्थसंग्रहः लटोंकः द्वितीयो विभागः
त्वरायामुद्यमे चाप्यात्मभूः ब्रह्मणि मन्मथे । ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ॥ ४४३ ॥ कर्णरंध्रे कालपुच्छे श्रेष्ठे चाप्युत्तरस्थितः । ऋषभी तु शुकशिव्यां पुरुषाकारयोषिति ॥ ४४४ ॥ विधवायां सिरालाय करभो मय उष्ट्रके ॥ अंगृलेश्च कनिष्ठायां मणिबन्धस्य चान्तरे ||४४५॥
(१९४)
हिनोति हेरम्बः । तुंबस्तंवादय इति ( उ० ३२० ) साधुः । शौर्यगर्विते वाध्य - लिंगः । तत्र यथा - हेरम्बडिम्बं विरल: सहेत । महिषे यथा - हेरम्बवाहनभयं भजते न कस्कः । विघ्नराजे विनायके यथा - हे हेरम्ब किमम्ब रोदयसि रे पुत्रं किमित्येष मे । कर्णे मोटयते कुमार किमिदं ज्येष्ठेऽप्यनुष्ठीयते । अथ भान्ताः । आरम्भस्तु वधदर्पयोः || आरम्भणमारंभः । उद्यमः उत्साहः । चतुष्वपि यथा-निरारंभास्तपस्विनः । आदिकर्मण्यपि । तत्र यथा - महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ४४२ ॥
त्वरायामुधमे चापि । आत्मभूः ब्रह्मणि मन्मथे । आत्मना आत्मनो या भवति आत्मभूः । पुंसि ब्रह्मणि यथा - वचस्यवसिते तस्य ससर्ज गिरिमात्मभूः । मन्मथे कंदर्पे यथा-जितमात्मभुवा विश्वमाक्रमेरा च ब्रह्मणः । ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे कर्णरंध्रे कोलपुच्छे श्रेष्ठे, चाप्युतरस्थितः । ऋषति ऋषभः । ऋषि वृषोति ( उ०३३१) विदभः । आदिजिते यथा - आदिमं तोर्थनाथं च ऋषभस्वामिनं स्तुमः । वृषभे बलीवर्दे यथाविम्वैर्दुग्धोऽपि ववति बत दुग्धं किमृषभः । स्वरे स्वरविशेषे यथा - सततमृषभहीनं भिन्नकीकृत्य षड्जम् ॥ ४४३॥
कर्णरंत्र श्रोत्रविवरं । कोलपुच्छं सूकरलांगूलं । उत्तरपदस्थितः श्रेष्ठे च यथा- धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । ऋषभी तु शुकशिव्यां पुरुषाकारयोपिति गौरादित्वाडो: । शूकशिंबी कपिकच्छूः ॥ ४४४ ॥
विधवायां सिरालायां । सिराला ओषधिः । करभो मय उष्ट्रके । अंगु