________________
तृतीयः काण्डः
(१९३) कादम्बः कलहंसेष्वोः नितम्बः कटिरोधसोः। स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् ॥४४०॥ दैत्यस्तालाङ्कुरः शाखा प्रालम्बः स्यात्पयोधरे । त्रपुसे हारभेदे च भूजम्बूस्तु विकङ्कते ॥४४१॥ गोधूमाह्वयधान्ये च हेरम्बः शौर्यगर्विते ।।
महिषे विघ्नराजे चारम्भस्तु वधदर्पयोः ॥४४२॥ कदम्बः सर्षपे नीपे । कद वैक्लव्ये सौत्रः । कदति कदंबः । कदेर्णिद्वेत्यम्बः । कुत्सितमम्बते वा । नीपे यथा-नवकदंबरजोऽरुणिताम्बरे ॥ कदम्ब निकुरुम्बके । यथा-छायानद्धकदंबकं मृगकुलं रोमन्थमभ्यस्य तु । कलंबो नालिकाशाके पृषत्वे नीपपादपे ॥ कलंबते कलंबः । नालिकाशाके स्त्रीपुसः । त्रिष्वपि यथा-करकलितकलंबः कोयनेति प्रलंबः ॥४३९॥ . कादंबः कलहंसेष्वोः। कदिः सौत्रः । कदति कादंबः । कदेणिद्वेति णिदंबः । कलहसो धूसरपक्षो हंसः । तत्र यथा-अब्जं चुम्बति कादम्बः । इषौ बाणे यथा-तावत्पूगैरन्यनागाधिरोहः । कादम्बानामे कपातैरसीव्यत् । नितंबः कटिरोधसो । स्त्रियाः पश्चात्कटौ सानौ । नितन्यते नितंबः । वलिनितनिभ्यां वः । कटौ पुरुषस्यापि श्रोणो यथा-नितंबबिंबसंबंधबंधुरच्छु: रिकाधरः । रोषसि क्ले यथा-रंतुं क्षतोत्तुंगनितंबभूमयो मुहुर्वजन्तः प्रमदं मदोद्धताः । स्त्रियाः पश्चात्कटो सानौ च यथा-सेव्या नितंबाः किमु भूधरा णामुत स्मरस्मेरविलासिनोनाम् । प्रलंबस्तु प्रलंबनं, प्रलंबनं प्रलंबते वा प्रलम्बः ॥४४०॥
दैत्यस्तालाकुरः शाखा । दैत्यतालांकुरशाखासु यथा-कपिः प्रलम्ब मुसलीव कृन्तति । प्रालम्बः स्यात्पयोधरे। त्रपुसे हारभेदे च । प्रालम्बते प्रालम्बः । पयोधरः स्तनः । त्रपुसं त्रपुसीफलं । त्रिष्वपि यथा-सगुणः शीतलो नव्यः प्रारम्बः कस्य न प्रियः । भूजंबूस्तु विकंकते । भुवि जंबूरिव भूजम्बूः । स्त्रियां । विकंकतः म॒वावृक्षः ॥४४१॥
गोधूमावयधान्ये च । हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे च।।