SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ (१९२) भनेकार्थसंग्रहः सटीकः :: द्वितीयो विमागः पादपो द्रौ पादपीठे पादपा पादरक्षणे । रक्तपः स्याद्यातुधाने रक्तपा तु जलौकसि ॥४३७॥ विटपः पल्लवे स्तंबे विस्तारे षिङ्गशाखयोः । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ॥४३८॥ कदंबः सर्षपे नीपे कदंब निकुरुंचके । कलंबो नालिकाशाके पृषत्वे नीपपादपे ||४३६।। गृहारामः । मानभेदः प्रस्थचतुर्थभागः । कुरणपः पूतगंधिनि । शवे । कुणति कुणपः । भुजि कुतीति किदपः । पूतगंधिनि वाच्यलिंगः । शवे पुक्लीवः । द्वयोर्यथा-कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । जिह्वापस्तु शुनि व्याघ्र द्वीपिबिडालयोः । जिह्वया पिवति जिहां पाति वा जिहापः । चतुर्थेषु यथा-जिह्वापः पापचेष्टितः ।।४३६॥ पादपो द्रौ पादपीठे । पादैमू लैः पिबति पादौ चरणौ पाति वा पादपः । द्रौ वृक्ष यथा--अद्रींद्रकुंजवरकुजर--गंडकाष--संक्रांतदान--पयसो वनपादपस्य । पादपीठे पादासनं । पादपा पादरक्षणे । पादरक्षणं पादुका । तत्र यथान पंथा पांथसार्थेन सुगमः पादपां विना । रक्तपः स्याद्यातुधाने । रक्तं पिबति रक्तपः । यातुधानो राक्षसः । रक्तपा तु जलौकसि | यथा-असंते सर्वतो रक्तं कुटन्यो रक्तपा इव ॥४३७॥ विटपः पल्लवे स्तंबे विस्तारे षिड्गशाखयोः। विटति विटपः । भुजि कुतीति किदपः । विटं पाति वा । षिड्गे पुसि । शेषेषु पुक्लीवः । पल्लवः किसलयं । स्तंबो गुच्छः विस्तारोऽर्थाद्वक्षस्य षिड्गो विटः । शाखा तरोः स्कन्धार्ध्वप्रसृता । षिड्गवर्ज शेषेषु यथा-द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मंजरी । षिड्गे यथा-नृपविविधविटपरूपस्तथापि विटपः कथं नासि । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् शोभनं रूपमस्य सुरूपः ।प्राप्तं रूपमनेन प्राप्तरूपः। अभिमतो रूपेण अभिरूपः ।त्रयोऽपि वाच्यलिंगाः । द्वयोयथा-हृदयावर्जनचतुराः केऽपि सुरूपाः विराजन्ते ॥४३८॥ अथ बांताः ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy