________________
तृतीयः काण्डः
(११)
एककस्मिन्द्वयोश्चापि काश्यपो मुनिमीनयोः । काश्यप्युया कुतपस्तु छागकंबलदर्भयोः ॥४३४॥ वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि । भागिनेयेऽष्टमांशेऽहौ वाद्यऽथ कुटपो मुनौ ॥४३५॥ निष्कुटे मानभेदे च कुरणपः पूतगंधिनि । शवे जिह्वापस्तु शुनि व्याघ्र द्वीपिबिडालयोः ॥४३६॥
दंत्यांत्यः । कसति कसिपुः । कस्त्यतिभ्यामिति पुक् । पुक्लीवः । तालव्यमध्येऽयमित्यन्ये ॥४३३॥ एकैकस्मिन्निति भोज्ये वने च पृथक् वर्त्तते । द्वयोरिति भोज्यवस्त्रयोः युगपदित्यर्थः । तेनार्थत्रयं सिद्धं । त्रिष्वपि यथा-सतां गृहे करोषि त्वं हिरण्यकसिपुस्थितिं । काश्यपो मुनिमीनयोः । कस्यापस्यापत्यं काश्यपः। विदादे व्यद्धे इति अञ् । कश्यपस्यायमिति वा । तस्येदमित्यण् । द्वयोर्यथा-वने यास्यति काश्यपः । काश्यप्युा । यथा-त्वं न धारयसे चेत्तदधो यास्यति काश्यपी । कुतपस्तु छागकंबलदर्भयोः । वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि भागिनेयेऽष्टमांशेऽहनौं वाद्य । कुतिः सौत्रः । कुत्यते कुतपः । भुजिकिदीति किदपः । कुपृथ्वीं तपति वा । दशस्वर्थेषु-छागकंबलदर्भदिनाष्टमांशेषु पुक्लीवः । शेषेषु पुसि । दर्भे यथा-कुतपं चासने दद्यात्तिलैश्चावकरेन्महीं ॥४३४॥ भागिनेये यथा-माद्यन्मित्र-कलत्र-पुत्रकुतप-श्रेणीरणच्छंखला बंधध्वस्त-गतेर्निरुद्धवपुषः कोधीदिविद्वेषिभिः । अष्टमांशोऽह्रौ मध्याह्ना प्रवृत्तिः श्राद्धकालः । यत्स्मृतिः-दिवसस्याष्टमे भागे मन्दीभवति भास्करे। सकालः कुतपो यत्र पितृम्यो दत्तमक्षयं । वायमेदे यथा-कुतपस्य तु विन्यासः प्रात्याहार इति स्मृतः । शेषेषु यथा-कुतप एष तपस्विजनप्रियः । चार्मे स्नेहपात्रेऽपि । यथा-चकोराणां ज्योत्स्नारसकुतपकौतूहलकृतां । अथ कुटपो मुनौ निष्कुटे मानभेदे च । कुटं पाति कुटपः । कुटति वा। भुजिकुतीति किदपः ॥४३॥ निष्कुटो