________________
(११०)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
कल्पने चाप्युलपस्तु गुल्मिनी तृणभेदयोः । उडुपः प्लवशशिनोः कलापो बहतूर्णयोः ॥४३२॥ संहती भूषणे कांच्यां कच्छपो मल्लबंधके । कमठे कच्छपी वीणा कसिपुर्भोज्यवस्नयोः ॥४३३॥
यथा-निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषयः । स आक्षेपो द्विधा मतः । आकृष्टौ यथा-यांशुकाक्षेप-विलज्जितानां । स्यादाकल्पस्तु मंडने कल्पने चापि । आकल्पते आकन्पनं वा आकल्पः । मंडने यथा-आकल्पसंकल्पितरूपशोभान् ।।४३१॥ कम्पने उदेशे यथा-आकल्पस्तस्य हविषः कर्तव्यो देवता प्रति । उलपस्तु गुल्मिनी तृणभेदयोः । वलते उलपः । विष्टपोलपवातपादप (उ० ३.७) इति साधुः । गुल्मिनी वेरुन्द्रेदः । तत्र क्लीबे इत्यन्ये । तृणभेदे यथा-उत्तीर्णभारलघुनाप्यलघूलपौधेसौहित्यनिःसहतरेण तरोरधस्तात् । उडुपः प्लवशशिनोः । उड्ड संघाते सौत्रः । उच्यते उडुपः । उडेरुपक् । उडून्पाति वा । सवे पुंक्लीवः । तत्र यथा-तितीर्घ दुस्तरं मोहादुडुपेनास्मि सागरम् । शशिनि यथा-उडुप त्वं पूर्णकुभीभव । कलापो बहतूणयोः संहतौ भूषणे कांच्यां । कल्पते कलापः कलेरापः । कलामाप्नोति वा । बहें यथा-दृष्ट्वेव निर्जितकलापभरामधस्ताद्वथाकीर्णमाल्यकवरां कवरी तरुण्याः । तूणे यथा-कलापयुक्तं कवचं धनुश्च ॥ ४३२॥ संहतौ यथा-भुजंगमानद्धजटाकलापं । भूषणे यथाध्वनिमधिकं कलमेखला कलापः । कांच्यां यथा-श्यामा स्वर्णकलापेन विद्युतेव धनावलिः। कच्छपो मल्लबंधके । कमठे । कत् कुत्सितं शपति कच्छपः ।कच्छेन पिबति वा । मल्लको वंधविशेषः । कमठे यथा-मेकैः कोटरशायिभिम तमिव क्ष्मान्तर्गतं कच्छपैः । कच्छपी वीणा । यदाहसरस्वत्यास्तु कच्छपी। तत्र यथा-तद्गच्छ कच्छपीध्वानश्रवणोत्सुक संसदि । कसिपुर्भोज्यवस्त्रयोः । एककस्मिन्द्वयोश्चापि । कस गतौ