________________
तृतीयः काण्डः
(१८९)
हिंडनं क्रीडारतयोर्यानेऽनूपस्तु सैरिभे । जबप्रायेऽप्पथावापः पातभेदालवालयोः ॥४३०॥ प्रक्षेपे भांडपचनेऽप्याक्षेपः परिभर्सने । काव्यालंकरणाकृष्टयोः स्यादाकल्पस्तुमंडने ॥४३१॥
पष्टिकाख्ये यथा--यवका हायनाः पांसुवाप्यनैषधकादयः । वर्षे यथा--तत्रैकहायन-कुरंगविलोचनायाः । हादिनीवविध तोः। हादः शब्दोऽस्त्यस्या हादिनी । वज्र यथा-हादिनी हादवित्रस्ता जग्मुः शैला महोदधिं । विद्युति यथा--तासामासीत्तमसि शरणं हादिनीनां प्रकाशः । समस्या नद्यां नादवत्यां च-मंखः । सल्लक्यां यथा-मातंगा हादिनी भंगं । नद्यां यथा-श्रांता यांति त्वरितममरहादिनीपार्श्वमश्वाः । नादवत्यां यथा-निर्दादिन्या विपंच्यामिलितमलिरुतेनेव तंत्रीस्वनेन ॥४२९॥ हिंडनं क्रीडारतयोर्याने । हिंडतेऽस्मिन् हिंडयते वा हिंडनं । त्रिष्वपि यथा--भंडानां हिंडनस्थानं । अथ पान्ताः । अनूपस्त सैरिमे । जलप्रायेऽपि । अनूपोऽस्त्यस्य अनूपः । अभ्रादित्वादः । अनुगता आपोऽत्र वा । कक्यूः पथ्यपोदिति समासान्ते अनोदेशे उवित्युपादेशः । सरिभो महिषः । जलप्राये वाच्यलिंगः । तत्र यथा--तामग्रतस्तामरतांतराभामनूपराजस्य गुणैरनूनां । अथावापः पातभेदालवालयोः प्रक्षेपे भांडपचनेऽपि । आवपंत्यस्मिन्नित्यावापः । आवपनं वा । पातभेदस्तालकालक्रियाविशेषः । आलवाले यथा-आवापेषु पिवन्ति यत्र सलिलं सायं समश्वासिनः ॥४३०॥ प्रक्षेपे यथा--शरावापाप्तं गगनतलमेतद्रघुपतेः। भांडपचनं आपाकस्थानं । तत्र यथा--आवापधूमपरिधूसरमंतरिक्षं । अरिचिंतावलयोरपि । अरिचिंतायां यथा--परं प्रत्यावापः फलति कृतसेकस्तरुरिव । वलये पुक्लीवः । तत्र यथा--प्रकोष्ठः शुशुभे तस्या गतोप्यावापशून्यतां । आक्षेपः परिभर्सने । काव्यालंकरणाकृष्टयोः। आक्षेपणमाक्षेपः । परिभर्सने यथा-आक्षेपर: वचनैर्विलक्षं । काव्यालंकरणे