________________
(१८८)
भनेकार्थसंग्रहः सटीकः :: द्वितीको विमागः
सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सूचना स्यादभिनये गंधने व्यधने दृशि ॥४२८॥ सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे। 'हाबनोऽचिव्रीहिवर्षे ह्रादिनी वज्रविद्यु तोः॥४२६।।
यथा-सुकर्मनिर्मिते हम्फे सुपर्वाणः सदासते । सुदामा पर्वते मेघे । सुष्ठु ददाति सुरामा । मन् । पुसि । द्वयोर्यथा-सौदामन्या कनकनिकास्निग्धया दर्शयोवीं । अत्र सुदाम्ना पर्वतेन मेघेन वा एकदिक्सौदामनी । टस्तुन्यदिखीत्यणि डीः । सुधन्वा त्वष्ट्धन्विनोः शोभनं धन्नाऽस्य सुधन्वा । पुसि । त्वष्टो देववकिः । धन्विनि यथा-अंधकारं शरासारैः सुधन्वानो वितन्वते ॥४२७।। सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सुष्टु पृणाति सुपर्वा । शोभनं पर्वास्य वा । पुसि । पर्व महः । सर्वेषु यथा-अखर्वाः स्वगुणा यस्य स सुपर्वेव वर्ण्यते । सूचना स्यादभिनये गंधने व्यधने दृशि | सूचनं सूच्यतेऽनया वा सूचना । णिवेत्यासेत्यनः (५।३।१११) चतुष्वर्थेषु गंधनं द्रोहाभिप्रायेण परदोषोद्घट्टनं । व्यधनं सूच्यादि । दृक् दृष्टिः । सर्वेषु यथा-जहे, मनः सूचनया न कस्य ॥४२८॥ सेवनं सीवनोपास्त्योः । शिवूच् डतौ । षेवृड् सेवने वा। भावेऽनटि सेवनं । द्वयोर्यथा-सेवनदृढीकृतानां स्वामिपटानां क्षतिः क्व संदृष्टा | सेनानीः सैन्यपे गुहे । सेनां नयति सेनानीः । पुसि । सैन्यपे यथा-तदिच्छामः प्रभो स्रष्टु सेनान्यं तस्य (तारकदानवस्य) शान्तये । गुहे षण्मुखे यथा-सेनान्यमालीढमिवासुरास्त्रेः । हायनोऽर्चिव्रीहिवर्षे । जहाति जिहीते वा हायनः । हः कालवीह्योरिति टनण अचिंषि तु बाहुलकात् । व्रीही पुसि । अन्यत्र पुक्लीवः । अचिंषि दीप्तौ यथाहव्यप्रवाह-बहु-हायनहव्यवाहस्यूर्जस्फुलिंगनिचयप्रकटीकृताशः । व्रीहौ
१ मुमू-हसन्यङ्गारधान्यां स्याद्धसनं हसिते मतम् । हस्तिनी नायिकाभेदे मातङ्गस्य स्त्रियामपि ।। हायनो०