________________
तृतीयः काण्डः
(१८७)
उपायेऽनुगमे मेढ़े निवृत्तौ कारके वधे । सपने मृत्संस्कारे प्रमाणे गमने धने ॥४२६॥ सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि । सुदामा पर्वते मेघे सुधन्वा त्वदृष्धन्विनोः ॥४२७॥
वृषाक्रांता लग्नगर्भा इत्यर्थः । न काले दुह्यते स्म अकालदुग्धा । य क्त्वात्पः । अदुग्धा दोहकाले तु संघेनी । वृषाक्रांता अकालदुग्धेति च गोविशेषणं । तेनार्थद्वयमेव । द्वयोर्यथा-आविकं संधेनी क्षीरं न भोक्तव्यं द्विजन्मभिः । स्थापनं तु निवेशने । पुंसवने समाधौ च । स्थाप्यते स्थापनं निवेशने यथा-द्विषां पुनः स्थापनमाततान । पुंसवने गर्भक्रियाविधौ यथा-संस्थापनं कारयते महिष्याः। समाधौ यथा-योगी सदा स्थापनवीतमोहः । साधनं सिद्धिसैन्ययोः उपायेऽनुगमे मेढ़े निवृत्तौ कारके वधे । दापने मत्संस्कारे प्रमाणे गमने धने ॥ साध्यते साध्यतेऽनेन वा साधनं । त्रयोदशस्वर्थेषु । सिद्धौ निष्पत्तौ च यथा-स्वार्थहान्यापि कुर्वीत गुरोरेवार्थसाधनं ॥ सैन्ये मेढ़े च यथा-साधनं समुहद्यस्य यन्नान्यस्य विलोक्यते ॥४२५।। उपाये यथा-कृतं तपः साधनमेतयावपुः । अनुगमे यथागुरुणां साधनं कार्यमुदकात्प्रागिति स्थितिः । निवृत्तौ निषेधे यथा. विधानमारब्ध ससाधनं मुधा । कारके साधकतमे यथा-प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । वधे यथा--अहन्यहनि भूपालः कुरुते वैरिसाधनं । दापने यथा-साधनं द्विगुणं कार्यमृणिकस्योत्तमर्णकः। मृत्संस्कारे यथा-वह्निना देहसाधनं । प्रमाणे यथा-साधनं दूषणं चैव समासं परसंविदे । गमने यथा-गंगातीरे साधनं सिद्धिहेतुः । धने यथा-तपस्विनामुच्छिलं हि साधनं ॥४२६।। सुकर्मा योगभेदे स्यात् । सक्रिये देवशिल्पिनि । शोभनं कर्माऽस्य सुकर्मा सक्रिये वाच्यलिंगः । शेषयोः पुसि । योगभेदे यथा-अतिगंडः सुकर्मा च । सत्क्रिये यथा-सुकर्मनिर्मणेन हि । देवशिल्पिनि