________________
(१८६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
संततो देववृक्षे च संस्थानं त्वाकृतौ मृतौ चतुष्पथे संनिवेशे सज्जनं घट्टगुल्मके ॥४२३॥ सज्जनस्तु कुलीने स्यात्सज्जनापि च कल्पना। संधानं तु संघटनेऽभिषवे संधनी तु गौः ॥४२४॥ वृषाक्रांताऽकालदुग्धा स्थापनं तु निवेशने । पुंसवने समाधौ च साधनं सिद्धिसैन्ययोः ॥४२५॥
पुत्रपौत्रादिः । गोत्रं वंशः । संततिः प्रवाहः । अपत्ये यथा-संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । गोत्रे यथा-संतानतानवकृतः पुरुषस्य जन्मः व्यर्थ भवेदिति किमत्र विचित्रता ते ॥४२२॥ संततौ यथा-अस्यां शरदि नदीनां संतानस्तानवं याति । देववृक्षे यथा-संतानकतरुच्छाया-सुप्त-विद्याधराध्वगं । संस्थानं त्वाकृतौ मृतौ चतुष्पथे संनिवेशे । संस्थितिः संस्थीयतेऽत्र वा संस्थानं । आकृतौ टंके यथासंस्थानमास्थानमनो जहार । मृतिमरणं । संनिवेशो रचना तयोर्यथामालाकार इव स्रजां स विदधे संस्थानमुच्चैर्द्विषाम् । चतुष्पथे यथाविधेयः संस्थाने स्थिरतरमनोभिर्वलिविधेः । सज्जनं घट्टगुल्मके । सत् जनयति सज्जति वा सज्जनं । घट्टो नद्यवतारस्तत्र गुल्ममायस्थानं घट्टगुल्मकं सेनासंनिवेशविशेषो वा । तयोर्यथा-धीरोपि सज्जनमुखे मुखमेति कस्कः ॥४२३॥ सज्जनस्तु कुलीने स्यात् । संश्चासौ जनश्च सज्जनः । वाच्यलिंगः । यथा-साध्वी सदा सदाचारसज्जसज्जनसेविता । सज्जनापि च कल्पना । सज्जनं सज्जना । णिवेत्यासेत्यनः (५।३।१११) कल्पना इभसज्जीकरणं । तत्र यथा-किं दुष्करं भवति सज्जनया गजानां । संधानं तु संघटनेऽभिषवे | संधीयते संधानं । संघटने यथाकामु केणेव गुणिना वाणः संधानमेष्यति । अभिषवे यथा-साधुभिर्मद्यसाधनं न विधेयं कदाचन । संधे(सेध)नी तु गौः वृषाक्रांताऽकालदुग्धा । संधा गर्भग्रहणमस्त्यस्याः संवेनी । शिखादित्वादिन् ॥४२४॥ वृषेणाक्रम्यते स्म