________________
तृतीयः काण्डः
(१८५) स्पर्शनं हृषीके दाने, स्पशे च स्पर्शनोऽनिले । स्पंदनं श्रवणे तोये स्पन्दनस्तिनिशे रथे ॥४२१॥ संव्यानं छादने वस्त्रे समानो देहमारुते ।
वर्णभित्सत्समैकेषु संतानोऽपत्यगोत्रयोः ॥४२२॥ ओषधराजस्य निर्दलनं निर्मथनम् । तत्र यथा-एतस्मिन्सवनविधौ विधृतपापाः । सदनं नलसद्मनोः । सीदन्त्यत्र सदनं । जलं नीरं । सपनि यथाअमरसदनादिभ्यो भूतानकीर्तिरनश्वरी । स्तननं कुथने मेघजितध्वनिमात्रयोः । स्तन्यते स्तननं । कुथनं संक्लेशः। मेघगर्जिते यथा-जलदपंक्तय इव उच्चैः स्तननाभिरम्याः। ध्वनितमात्रे यथा दु'दुभिस्तननपुष्पवर्षणैरन्वमोद्यत महः सुरैरपि ॥४२०॥ स्पर्शनं हृषीके दाने स्पर्शे च । स्पृश्यते स्पर्शनं कर्मणि भावे वाऽनट् । हृषीके यथा-स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितींद्रियं । दाने स्पर्शे च यथा-अश्वत्थसेवा तिलपात्रदानं गोस्पर्शनं ब्राह्मणतर्पणं च । स्पर्श!ऽनिले । स्पृशति स्पर्शनः । नंद्यादित्वादनः। अनिले वायौ यथा-स्पर्शनं हि क उपैति चक्षुषा । स्पन्दनं श्रवणे तोये । स्पद्यते स्पंदनं । द्वयोर्यथा-स्वेदस्पंदनलीनचीनवसनै दृश्यांगयष्टिश्चिरम् । स्पन्दनस्तिनिशे रथे। तिनिशो वृक्षः।रथे यथा-रहोभाजामक्षधूः स्पंदनानाम् ।।४२१।। संव्यानं छादने वस्त्रे । संवीयते संव्ययति संवीयतेऽनेन वा संख्यानं । द्वयोर्यथा-संख्यानलीला तरुवल्कलानि । समानो देहमारुते । वर्णभित्सत्समैकेषु । समानीयते समानः । क्वचिदिति डः । समानित्यनेन वा । समानं तुल्यं मानं परिमाणमस्येति वा सह मानेन वर्त्तते इति वा। सत्समैकेषु वाच्यलिंगः । देहमारुते पुक्लीवः । समेऽपीति लिंगविदः । देहमारुते यथा-समानोऽग्निसमीपस्थः कोष्ठे चरति केवले । वर्णभिदि समे च यथा-समानानां भवेद्देध्यं संहतानां परस्परम् । सति साधौ यथा-समानो मान्यते न कैः । एकस्मिन् असाधारणे यथा-समानस्थानलामेन जहर्ष मुनिकुजरः । संतानोऽपत्यगोत्रयोः संततौ देववृक्षे च । संतन्यते संतानः । चतुर्वर्थेषु । अपत्यं