________________
(१८२ )
अनेकार्थसंग्रहः सटीका
वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः । रते शमनस्तु यमे शमनं शांतिहिंसयोः ॥ ४१४ ॥ श्वसनं श्वासे श्वसनः पवने मदनद्रुमे । शकुनं स्यादेवशंसि निमित्ते शकुनः खगे ॥ ४१५॥
सुतः । कर्णशष्कुली कर्णपुत्रिका । वृतिवरणं तत्र यथा-भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ॥ ४१३ ॥ वेदना ज्ञाने पीडायां वेद्यते वेदना । णिवे त्यासेत्यनः । ( ५।३।१११)। ज्ञाने यथासंमूछिता हि सन्त्येव तिरश्चामपि वेदनाः । पीडावां यथाव्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः । शयनं श्वापशय्ययोः । रते । शय्यते शेरतेऽत्र वा शयनं । शय्यायां पुंक्लीबः । श्वापे यथा-शयन मह्यास्तले केवले । शय्यायां । यथा-संविष्टकुशशयने निशां निनाय । रते सुरते यथा-क्लान्ति निहंति पवनः शयनावसाने । शमनस्तु यमे । शमयति शमनः । यथा-असि भुजगविभूषणस्तवासावरिशमनो जयति क्षितीशबाहुः । शमनं शान्तिहिंसयोः । शम्यते शमन । शांतौ यथा--मुनीनां कोपशमनं मुख्यमंगं तपोविधिः । हिंसायां यथा-विवर्जयेद्यः शमन पशूनाम् ॥ ४१४ ॥ श्वसन श्वासे । श्वश्यते श्वसन । यथा-श्वसनमुरजवं संत्यजोर्द्ध प्रवृत्तम् । पुल्लिंगोऽयमित्यन्यः । श्वसनः पवने मदनद्रुमे । श्वसिति श्वसनः । पवने यथा-कुंठकुहरे विमूढः श्वसनो यावन्न निर्याति । मेरुवकेपि मंखः । तत्र यथा-कामाग्निः श्वसनेन दीपितः । शकुन स्यादेवशंसि निमित्ते । शक्यतेऽनेन शक्नोति वा शकुन । यम्यजीत्पुनः । यथा-शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशः । शकुनः खगे । यथा-प्रभाते