SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 00000000AAAAAAAAAAAAAAA0000000AAAAAAAAAAAAAAAAAAAAA . तृतीयः काण्डः _ ( १८१ ) कामे विषयिहृषीके व्युत्थानं प्रतिरोधने । विरोधाचरणे स्वैरवृत्तौ समाधिपारणे ॥ ४१२ ॥ वृजिनः केशे वृजिनं भुग्नेऽचे रक्तचणि । वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोवृतौ ॥ ४१३ ॥ भोगिसर्पयोः । विलसतीत्येवं शीलो विलासी । विले आस्ते इति वा । अजातेः शील इति णिन् । भोगिनि वायलिंगः । द्वयोर्यथा-विलासिनां लासक एष वायुः । विषयी विषयासक्ते वैषयिकजने नृपे । कामे । विषयः स्पर्शादिर्जनपदो वाऽस्त्यस्य विषयी । विषये स्पर्शादौ आसक्तः । विषयासक्तः । तत्र वाच्यलिंगः । वैषयिकजनो ग्रामकुंडादिः । नृपो राजा । कामः स्मरः । चतुलपि यथा-नो शक्यते विषयिणा विषयो विमोक्तुम् ॥ ४११ ॥ विषयि हृषीके । हृषीके इन्द्रिये क्लीबः । व्युत्थान प्रतिरोधने । विरोधाचरणे स्वैरवृत्तौ समाधिपारणे । विगतमुत्थानमत्र व्युस्थान । विरुद्धं विशिष्टं वा उत्थीयतेऽस्मिन्निति वा । चतुर्वर्थेषु प्रतिरोधने समाधिपारणे च यथा-समाधिर्मरुतां चापि व्युत्थाने योगिनां मनः । विरोधाचारणे स्वैरवृत्तौ च यथा-व्युत्थानं परिहृत्य भूमिपतयो यातास्तव प्रेष्यताम् ॥ ४१२ ॥ वृजिनः केशे । वृज्यते वृजिनः । वृजि तुहीति ( उ० २८३ ) किदिनः । यथाव्रजति वृजिनपाशः कामपाशत्वमस्याः । वृजिनं भुग्नेऽघे रक्त चर्मणि । भुग्नं कुटिलं । तत्र वाच्यलिंगः । तत्र अघे च यथाशिवं दिशंतु वः सर्वे निरस्तवृजिना जिनाः । रक्तचर्मणि यथावृजिनजनितवेषः सैष शंभुननर्त-वेष्टनं मुकुटे कर्णशष्कुल्युष्णोषयोवृतौ । वेष्टतेऽनेन वेष्टयते वा वेष्टन । चतुर्वर्थेषु मुकुटे उष्णीषे च यथा-तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy