________________
( १८०)
अनेकार्थसंग्रहः सटीकः विमानं देवतायाने सप्तभूमगृहेऽपि च । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ॥ ४०९ ॥ वेतनोपायविधिषु प्रकारे वैरकर्मणि । विपन्नो भुजगे नष्टे विश्वप्सा वह्निचंद्रयोः ॥ ४१० ॥ समीरणे कृतांते च विलासी भोगिसर्पयोः । विषयी विषयासक्ते वैषयिकजने नृपे ॥४११ ॥
( ५११४८३ ) टक विषघ्ना त्रिवृताऽमृता । विषं हन्यतेऽनया विषघ्ना । स्थादित्वात्कः । द्वेऽपि लताभेदो विषघ्नी इत्यन्ये । विच्छिन्नं तु कुटिले स्यात्समालब्धविभक्तयोः । विच्छिद्यते स्म विच्छिन्नं वाच्यलिङ्गः । कुटिलं वकं । समालब्धं वर्द्धितं विभक्त पृथक्कृतं । त्रिष्वपि यथा-अविच्छिन्नतरुश्रेणिविच्छिन्नाप्ततपसंचरम् । समाप्तावपि मङ्खः । यथा-अविच्छिन्नोऽभवत् जलधिलहरी सङ्गसुभागे ॥ ४०८ ॥ विमानं देवतायाने सप्तभूमगृहेऽपि च । विमान्ति विमानं । पुंक्लीबः । देवतायाने यथाखिलोभूते विमानानां तदापातनयात्यवि । सप्तभूमिगृहे यथानरेन्द्रकृतसन्मानो विमाने मानवेश्वरः । अश्वयानमात्रयोरपि । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने । वेतनोपायविधिषु प्रकारे वैरकर्मणि । विधियतेऽनेन विधिर्वा विधानं । नवस्वर्थेषु यथास सिन्धुरविधानेन कुटुंबं परिपुष्यति ॥ ४०९ ॥ विपन्नो भुजगे नष्टे । विपद्यते स्म विपन्नः । नष्टः परासुः । तत्र वायलिगः। द्वयोर्यथा-चंद्रचूडाभिधो जातो विपन्नः पन्नगाऽन्वये विश्वप्सा बहिचंद्रयोः । समोरणे कृतांते च । विश्वं प्साति विश्वप्सा । श्वान्मातरिश्वान्निति ( उ० ९०२) साधुः । पुसि । चतुर्वपि यथा-विश्वप्सा विश्वविश्रुतः ॥ ४१० ॥ विलासी