________________
तृतीयः काण्डः
(१७९)
विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः । विक्लिन्ना जीर्णशीर्णााः विलीनौ लीनविद्रुतौ ॥ ४०७॥ विषघ्नः शिरीषतरौ विषघ्ना त्रिवृताऽमृता । विच्छिन्नं तु कुटिले स्यात्समालब्धविभक्तयोः ॥४०८ ॥
कदक उल्लोचः । तत्र शून्ये च यथा-बहत्तलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः । यज्ञे ऋतुकर्मणि च यथा-सोमपायिनि भविष्यते मया वांच्छितोत्तमवितानयाजिना । विस्तार यथा-विलुलितकमलौघः कोणवल्लीवितानः । तुच्छे मंदे च यथा-चित्रं तेऽतिवितानमारमति चेद्देवं भवानीपतिम् । वृत्तभेदोऽष्टाक्षरजातौ छन्दः । यदाह-अन्यदतो हि वितानं । अवसरे यथा-वितानेतानेवं नटयति नटान्भूपतिलकः ॥ ४०६ ॥ विज्ञानं कार्मणे ज्ञाने । विज्ञायते विज्ञानं । द्वयोर्यथा-विज्ञान योगिनामेव नैवान्यत्र विलोक्यते । विलग्न मध्यलानयोः । विलगति स्म विलग्न । क्ते क्षुब्ध विरिब्धेति (१।४।७० ) साधुः । विलज्जते स्म वा । मध्ये पुक्लीबः । तत्र यथा-मध्येन सा वेदिविलग्नमध्या । लग्न सक्त। राशीनामुदयो वा । सक्तेर्वाच्यलिंगः । तत्र यथा-नमंति यं मौलिविलग्नपाणयः । राशीनां मेषादीनामुदये यथा-विलग्नभुवनं गते । विक्लिन्ना जीर्णशीर्णाः । विक्लिदयति विक्लिन्नः । वाच्यलिंगः । त्रिष्वपि यथा-विक्लिन्नान्नपरीभोगाद्रोगः स्यादंगिनां ध्रुवम् । जरया जीर्णे इत्यनः । विलीनौ लीनविदुतौ । विलीयते स्म विलीनः । वाच्यलिंगः । लीनं संश्लिष्टं । विदुतं विनष्टं द्रवीभूतं वा सर्वत्र यथा-स्वर्ण तत्किं न तत्रैव विलीनं दहनोदरे ॥ ४०७ ॥ विषघ्नः शिरीषतरौ । विषं हंति विषघ्नः । अचित्ते टगिति