________________
(१७८)
अनेकार्यसंग्रहः सटीक खर्वेऽकोठे वाहिनी तु सेनासद्मेदसिन्धुषु । स्याहाणिनी तु नर्तक्यो छेकमत्तस्त्रियोरपि ॥४०५ ॥ वितानं कदके यज्ञे विस्तारे ऋतुकर्मणि । तुच्छे मंदे वृत्तमेदे शून्यावसरयोरपि ॥४०६॥
मनुसरविह साधुवर्गः । तौरवस्तात्पाषाणादिमयः पिंडस्त'पिंडः । वनश्वा विप्रतारके । शार्दूले गंधमाजार । वने श्वेव वनश्वा । त्रिष्वपि यथा-वनश्वा विश्वासे विशति न हि कस्यापि नितराम् । विप्रतारकोऽरण्यश्वेत्यन्ये । वामनो दिग्गजेऽच्युते । खर्वेऽकोठे । वाम हस्वावयवत्वमस्त्यस्य वामनः । नांगादेरिति नः । सर्वे वायलिंगः । दिग्गजे दक्षिणाशाद्विपे यथा-काव्यालंकारभूरुवी वामनेनैव पारिता । अच्युते यथा-वामनाश्रमपदं ततः परं ॥ ४०४॥ सर्वे यथा-उद्बाहुरिव वामनः । अंकोठो वृक्षः । चाहिनी तु सेनातभेदसिंधुषु । वाहाः सन्त्यस्य वाहिनी । वहत्यवश्यं वा । आवश्यके णिन् । सेना सेनामात्रं । तस्याः सेनायाः भेदः प्रकारः । यदाह-त्रिभिगुल्मैर्गणस्तैस्तु वाहिनी त्रिमिरिष्यते । सिंधु दी । त्रिष्वपि यथा-वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुचन्त्यभीक्ष्णम् । स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि । वणति अवश्यं वाणिनो । वानिनीत्यमरः । छेका विदग्धा । मत्ता उन्मत्ता । त्रिष्वपि यथायस्मिन्मही शासति वाणिनीनां निद्रां विहारार्द्धपथे गतानाम् ॥ ४०५॥ वितानं कदके यज्ञे विस्तारे ऋतुकर्मणि । तुच्छे मंदे वृत्तभेदे शून्यावसरयोरपि । वितन्यते वितानं । नवस्वर्थेषु तुच्छमंदयोर्वाच्यलिंगः । वृत्तभेदे क्लीबे । अन्यत्र पुंक्लीबः ।