________________
(१७) वर्द्धनं छेदने वृद्धी चीनी तु गलतिका ।। वपनं मुंडने वीजाधानेऽय वर्सनी पधि ॥४०३।१६. वर्त्तने तपिंडे च बनका विस्तारके । .. .
शार्दूले गंधमार्जारे वामनो दिग्गजेऽच्युते ॥४०४।। जनैः प्रववृते सुसंस्कृतैर्वागियं रसवती कवैरिव । अवयवः शरीरैकदेशः । तत्र यथा-उभयव्यंजमा पोटा । नमन छर्दमेऽदने । वम्यते वमनं । छर्दने यथा-षण्मास्यां कुरुते यस्तु वमनं बा विरेचनम् । अर्दनं पीडा । वसनं छादने - वस्त्रे । वसिक् आच्छादने । वस्यतेऽनेन वसनं । छादने आच्छादने यथा-दशनबसनभूमिबंधुजीव दुनोति । वस्त्रे यथा-आत्मनैव ... रुरुधे कृतिनेव स्वेदसंगिवसनं जघनेन । वर्जनं त्याहिंसयोः । वय॑ते. वर्जनं । त्यागो दानं । परिहारो वा । दाने - यथा-श्रीणां व्यधादर्जनमर्जितानां । परिहारे यथा-खलानां कृतिभिः कार्यं दूरादेव तु वर्जनम् । हिसायां यथा-न स्यात्कलौ वर्जनमर्जुनोनां ॥ ४०२ ॥ वर्द्धनं छेदने वृद्धौ । वर्द्धण् छेदनपूरणयोः । वृधड् वृद्धौ वा । भावेऽनटि वर्धनं । छेदने यथा-प्राक् नालवर्द्धनात्पु सो जातकर्म विधीयते । वृद्धौ यथा-अवंध्यवचसा येन निरुद्धं विंध्यवर्द्धनम् । वर्द्धनी तु गलंतिका । वार्द्धियतेऽस्यां वर्द्धनी । पृषोदरादित्वात् । गलंतिका गगरी । तत्र यथा-न वृद्धा वर्द्धनी वोढुं सुदृढा नीरपूरिताम् । संमार्जिन्यामपि । यथा-संमार्जनी बहुकरी वर्द्धनी च समूहिनी । वपनं मुंडने बीजाधाने । उप्यते वपनं । मुंडने यथा-तीर्थे वपनमाचरेत् । बीजाधाने यथा-कुर्वति व्रीहिवपनं क्षेत्रे तप्तांबुपूरिते । अथ वर्तनी पथि । वर्त्तने तर्कुपिंडे च । वर्तन्तेऽस्यां अनया वा वर्तनी । पथि यथा-अकीर्तिवर्तनी चैषा कुकवित्वबिडंबना ॥ ४०३ ॥ वतने जीविकायां यथा-कां वर्तनी