________________
( १७६ )
अनेकार्थ संग्रहः सटीकः
aaaaaaaaaaaaaaaaaaaaaaa000000000
दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु ॥ पापे विपत्तावशुभे व्यंजनं श्मश्रुचिह्नयोः ॥ ४०१ ॥ तेमनेऽवयवे कादौ वमनं छर्दनेऽर्दने । वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ॥ ४०२ ।।
केरे । लांगलमस्त्यस्य लांगली । द्वयोर्यथा-लांगलिलीलाललिते माधवविच्छित्तिजनितसौभाग्ये । अथ लेखनं । भूर्जे च्छेदे लिपिन्यासे । लिख्यतेऽस्मिन् लेखनं । भूजों बहुत्वकः । तत्र लिपिन्यासे च यथाविधेयं लेखने तज्ज्ञ राजादेशस्य लेखनम् । च्छेदे यथा-करोतु तत्र किं नाम वनिता नखलेखनम् । व्यसनं निष्फलोद्यमे । दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे । व्यस्यति श्रेयोमार्गात व्यस्तिर्वा व्यसन । निष्फलोद्यमे यथा-पठकः पाठकश्चैव ये चान्ये शास्त्रचिंतकाः । तेऽमी व्यसनिनः सर्वे यः क्रियावान्स पंडितः ॥ ४०० ।। देवानिष्टफले यथा -ये प्राप्ते व्यसनेऽप्यनाकुलधियः संपत्सु नेवोन्नताः । सक्तिरासक्तिस्तत्र यथा-परोपकारव्यसन महात्मनाम् । स्वोपानमृगयादिषु । द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धि चौयं परदारसेवा । एतानि सप्तव्यसनानि लोके, पापाधिके पुंसि सदा भवंति । पापे यथा-देवः स वो दिनमणिर्व्यसनानि हन्तु । विपत्तौ यथा-यदेंदोरन्वेति व्यसनमुदयं वा निधिरपां । अशुभे यथा-व्यसने नियोजयेच्छत्रु । व्यंजन श्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ । व्यज्यतेऽनेन व्यंजन । पंचस्वर्थेषु श्मश्रुणि यथा-आकुचितव्यंजनभक्तिभाजा मुखेन नारीनयनानि मुष्णन् । चिह्न यथा-अमात्यव्यंजनराज्ञां दूष्यास्ते शत्रुसंज्ञिताः । अत्र हि अमात्यत्वं व्यंजनचिह्नमेषामिव्यर्थः ।। १०१॥ तेमन निष्ठानादि । तत्रं कादौ च यथा-सं