________________
तृतीयः काण्डः
( १७५)
लंघनं भोजनत्यागे प्लवने क्रमणेऽपि च । ललाम वल्ललामाश्वे शृंगे चिहपताकयोः ॥ ३९८ ॥ रम्ये प्रधाने भूषायां पुद्रे पुच्छप्रभावयोः । ललना स्त्रीनाडिजिह्वाः लांछनं लक्ष्मसंज्ञयोः ॥ ३९९ ॥ लांगली स्यादबलभद्रे नालिकेरेऽथ लेखनम् ।
भूले च्छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे ॥ ४०॥ यष्टिः । वरयोषित् वरस्त्री ।। ३९७ ॥ लंघनं भोजनत्यागे प्लवने क्रमणेऽपि च । लंध्यते लंघनं । भोजनत्यागे क्रमणे अतिक्रमे च यथा-भक्ते द्वेषो जडे प्रीती रुचितम् गुरुलंघनम् । मुखे च कटुता नित्यं धनिनां ज्वरिणामिव । प्लबने यथा-पोतो पायादिह हि बहवो लंघनेऽपि क्रमते । ललाम बल्ललामाश्वे शृंगे चिह्नपताकयोः । रम्ये प्रधाने भूषायां पुद्रे 'पुच्छप्रभावयोः । लाति ललाम । सात्मन्नात्मन्निति ( उ० ९१६) साधुः । क्लीबे । रुक्मग्रीष्मेति ( उ० ३४६ ) निपातनात् ललामं पुक्लीबः । द्वावपि रम्यप्रधानयोर्वाच्यलिंगौ । दशस्वर्थेषु । अश्वो हयः । शंगं विषाणं । चिह्न लक्षणं । पताका ध्वजः ॥ ३९८ ॥ रम्ये प्रधाने भूषायां :च यथा-निर्मापितस्त्रिभुवनैकललामभूतः । पुद्रोऽश्वस्य स्वाभाविकः श्वेतो मुखपट्टः । तत्र यथा-सिंदूरपूरपरिपूर्णललामभंग्या; पत्युः प्रतापमिव दर्शयते वराश्वः । पुच्छे यथालीलाविलोलितललामविलासभासः । ललनाः स्त्रीनाडिजिह्वाः । ललति ललना । नंद्याधनः । स्त्रियां यथा-हर्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नांतरात्मा नीत्वा खेदं ललितललनापादरागांकितेषु । नाडिः सिरा । जिह्वा रसना । लांछनं लक्ष्मसंज्ञयोः । लांछचतेऽनेन लांछन । लक्ष्मणि यथा-कठोरताराधिपलांछनच्छवि । संज्ञा अभिवानं ॥ ३९९ ॥ लांगशी स्यादबलभद्रे नालि