SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ( १७४ ) अनेकार्थसंग्रहः सटीकः रंजनं रजके रक्तचंदनेप्यथ रंजनी । मंजिष्ठारोचनानीलीगुडासु रजनी निशि ॥ ३९५॥ लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः । साधने रेचनी गुंडा दंती रोपनिका त्रिवृत् ॥ ३९६ ॥ रोदनं त्वश्रुणि कंदे रोचमः कूटशाल्मली । रोचना रक्तकल्हारे गोपित्ते वरोषिति ॥ ३९७ ॥ ध्वनिते यथा-जलदरसनभीता कांतमालिंगति स्वम् । स्वादे आस्वादने यथा-श्रृंगाररसनानाट्ये । रसज्ञायां यथा-यदमी दर्शति दशना रसना तत्स्वादसुखमवाप्नोति । रास्ना औषधिः ॥ ३९४ ॥ रंजन रंजके रक्तचंदनेऽपि । रंजयति रज्यतेऽनेन वा रंजन । रंजके वायलिंगः । तत्र यथा-राजा सज्जनरंजनः । अथ रंजनी मंजिष्ठारोचनानीलीगुडासु । चतस्रोऽप्योषधयः । रजनी निशि । लाक्षानीलीहरिद्रासु । रज्यति रजनी । रंजः किदिति ( उ० ६८१ ) अनिः । ड्यां रजनी। निशि यथा-द्विगुणीभूता रजनी वृद्धव शनैः शनैः याति ॥ ३९५ ॥ राधनं प्राप्तितोषयोः । साधने । राध्यते राधनौं । त्रिष्वपि यथा-धनराधनदुविधः । रेचनी गुंडा दंती रोचनिका त्रिवृत् । रेचयति रेचनी । चतस्रोऽप्योषधयः ॥ ३९६ ॥ रोदनं त्वश्रुणि कंदे । रोदित्यनेन रुद्यते वा रोदनं । अश्रुणि यथा-लोचने रोदनाताने । दे यथा-करुणो रोदनध्वनिः । रोचनः . कूटशाल्मलौ । रोचते रोचनः । इडितो व्यंजनार्यतादित्यवनः । कूटशाल्मलिभेदः । रोचना रक्तकल्हारे गोपित्ते वरयोषिति । रक्तकल्हारं जलजविशेषः । गोपित्त गोरोचना । तत्र यथा-त्वं रोचनागौरशरीर
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy