________________
- तृतीयः काण्डः
( १७३) maanaamanamaroorammarwar मैथुनं रतसंगत्योः यमनं यमबंधयोः । यापनं कालविक्षेपे निरासे वर्तनेऽपि च ।। ३९३ ॥ योजनं चतुष्क्रोश्यां स्याद्योगपरमात्मनोः । रसनं ध्वनिते स्वादे रसज्ञारास्नयोरपि ॥३९४ ॥ पंचव्योमहुताशनैश्च मिथुनः कर्कः कुवेदोऽग्निभिः । मिथुनं . पुस्त्रियोर्युगे । पुस्त्रियोरिति सौत्रो निर्देशः । यथा-परस्पराक्रंदिनि चक्रवाकयोः पुरो वियुक्त मिथुने कृपावती । मुंडनं रक्षणे क्षौरे । मुडुड् मज्जने । मुड्डु खंडने वा । मुंडयते मुंडनं । क्षुरस्येदं क्षौरं कर्म तत्र यथा-राज्ञो हि दुष्टनिग्रहः शिष्टपालनं च धर्मो न पुरः शिरोमुडनं जटाधारणं वा । मेहनं मूत्रशिश्नयोः । मिह्यते मेहति वा मेहनं । द्वयोर्यथा-मेहनं देहिनां गोप्यं ॥ ३९२ ॥ मैथुन रतसंगत्योः । मिथुनस्य भावः कर्म वा मैथुन । युवादेरणू । रते यथा आहारो मैथुन निद्रा सेवमानस्य वर्द्ध ते । संगतिः संबन्धमात्र । तत्र यथा-मैथुन कुथकंथयोः । यमन यमबंधयोः । यम्यते यमन । यमः संयमः । द्वयोर्यथा-मर्कटस्येव मनसो विदध्याघमन मुनिः । यापन कालविक्षेपे निरासे वर्तनेऽपि च । याप्यते यापयति. बा यापन । कालविक्षेपे वर्तने च यथा-मुक्त्यर्थी यत्र तत्रस्थः कुर्याज्जीवस्य यापनम् । निरसन निरासः । त्याग इत्यर्थः । तत्र यथा प्रबलशक्रपराभवशंकया यदि करोति धनस्य स यापनम् ॥ ३९३ ॥ योजनं चतुष्क्रोश्यां स्याद्योगपरमात्मनोः । युज्यते युंजंति वा योजनं । चतुष्क्रोश्यां यथा--युक्तो नु क्रोशसंपन्नोजनैरिव योजनैः । योगः संबन्धमानं । तत्रं यथा- करपंकजयोजनम् । रसन ध्वनिते स्वादे रसज्ञारास्नयोरपि । रस्यते रसत्यनेन वा रसन । रसज्ञायां स्त्रीक्लीबः ।