________________
( १७२ )
अनेकार्थसंग्रहः सटीका
मलिनी रजस्वलायां मंडनं तु प्रसाधने । मंडनोऽलंकरिष्णौ स्यान्मार्जनो लोध्रशाखिनि ॥ ३९० ॥ मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ । मालिन्युमायां गंगायां चंपावृत्तप्रभेदयोः ॥ ३९१ ॥ मालिक्यां मिथुनो राशौ मिथुनं पुस्त्रियोर्युगे । मुंडनं रक्षणे क्षौरे मेहनं मूत्रशिश्नयोः ॥ ३९२ ॥
परितस्तरिरे । दोषे यथा-यशः प्रसूते मलिनं प्रमार्टि । ३८९ ॥ मलिनी रजस्वलायां । गौरादित्वाड्डोः । यथा-स्पृशति । नो बत जातिवियोगतः कमलिनी मलिनीमिव षट्पदः । मंडनं तु प्रसाधनं । मंड्यते मंडनं । यथा-मंद मंदमकारि येन निजयोर्दोदंडयोमंडनम् । मंडनोऽलंकरिष्णौ । मंडयति इत्येवंशीलो मंडनः । भूषाक्रोधार्थेत्यनः । वायलिंगः । यथा-तत्रापि वरदातीरमंडनं कुडिनं पुरम् । स्यान्मार्जनो लोध्रशाखिनि । माय॑तेऽनेन मार्जनः ॥ ३९० ॥ मार्जनं शुद्धिकरणे । माज्यते मार्जनं । यथाकुर्वाणानां संपरायांतरायं भूरेणूनां मृत्युना मार्जनाय । मार्जना मुरजध्वनौ । माय॑ते मार्जना । णिवेत्यासेत्यनः । यथा-आसीनाः किमिति स्थिता ननु सखे प्रसूयतां मार्जना । वाद्यवदनदेयध्यान्यपिंडयोमिति मंखः । मालिन्युमायां गंगायां चंपावृत्तप्रभेदयोः । मालिक्यां । मलतेऽवश्यं मालिनी । णिन्वावश्यकेति णिन् । माला अस्त्यस्या इति वा मालायाः क्षेपे इतीन् । पंचस्वर्थेषु उमा गौरी गंगा जाह्नवी । चंपा नगरी । वृत्तप्रभेदे च यथाननमयययुतेयं मालिनी भोगिलोकैः ॥ ३९१ ॥ मालिकी पुष्पलावी । तत्र यथा-सा मालिनी चंपकमालभारिणी । मिथुनो राशौ । मेथति मिथुनः । पिशिमिथीति ( उ० २९०) किदुनः । यथा