________________
तृतीयः काण्डः
( १७१)
खलीकारे भट्टिनो तु ब्राह्मण्यां नृपयोषिति । भावना वासना ध्यानं भुवनं लोकखांबुषु ॥ ३८८ ॥ भूतात्मा दुहिणे देहे मदनः सिक्थके स्मरे । राडे वसंते धत्तूरे मलिनं कृष्णदोषयोः ।। ३८९ ।।
खलीकारे । भडुड परिभाषणे । भंड्यते भंडनं । त्रिष्वपि यथा-भटैभंडनमंडितैः ॥ ३८७ ॥ भट्टिनी तु ब्राह्मण्यां नृपयोषिति । भट्टो द्विजन्मा नृपतिर्वा पतिरस्त्यस्या भट्टिनी । द्वयोर्यथा-भट्टिनो भट्टवेष्टिता । भावना तु वासना ध्यानं । भाव्यते भावना । द्वयोर्यथा-भावना भवनाशिनी । भुवनं लोकखांबुषु । भवन्त्यनेन अस्मिन्वा भुवनं । सू धू भू इति किदनः । लोको विष्टपं तत्र पुंक्लोबः । तत्र अंबुनि च यथा-करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ३८८ ॥ भूतात्मा दहिणे देहे । भूतानामात्मा भूतान्येवात्माऽस्येति वा भूतात्मा । द्रुहिणे यथा-भगवास्ते स भूतात्मा निर्वाणं . सम्प्रदास्यति । देहे यथा-कदा भूतात्मानं सुरसरिति मुक्त्वा सुखमियां । मदनः सिक्थके स्मरे । राडे ( राढे-जले) वसंते धत्तरे । माद्यति मदयति वा मदनः । सिक्थके मधूच्छिष्टे यथा-मदनगोलकमृष्टरदच्छदाः । राडो वृक्षविशेषः । यथाह-मदनः । सल्यको राडः । तत्र स्मरे च यथा-अयोधानलतामिमां समदनां नारीमिवान्यां ध्रुवम् । वसन्ते यथा-उपययौ मदनोथ यथार्थताम् । मलिनं कृष्णदोषयोः । मलोस्त्यस्य मलिनं । मलादीमसश्चेति इनः । कृष्णे वाच्यलिंगः । तत्र यथा-अथ नागयूथमलिनानि जगत्परितस्तमांसि