________________
( १७० )
अनेकार्थसंग्रहः सटीकः
वध्या च वासुदेवस्य पृतनाऽनीकिनी चमू।। सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः ॥ ३८६॥ नदीजेऽर्जुनक्षे च फाल्गुनी पूर्णिमाभिदि । भवनं सदने भावे भंडनं कवचे युधि ॥ ३८७ ॥
पुनराम्राते । आम्रातो वृक्षविशेषः । पूतना तु हरीतकी । वध्या च वासुदेवस्य । पूयते पूतना । पृपूभ्यां किदिति (उ० २९३ ) तनः ॥ ३८५ ॥ वासुदेवस्य वध्यायां राक्षस्यां यथा-यदि नांगतेति मतिरस्य मृदुरजनि पूतनां प्रति । मंखस्तु पूतना तु हरीतकी । भूतभेदे । पुंस्त्रीलिंगः । द्वयोरित्याह-यथा एतत्पूतनचक्रमक्रमग्रासार्द्धमुक्तैः । पृतनाऽनीकिनी चमूः । सेना सैन्यविशेषश्च । पिपर्ति पृतना । पृपूभ्यां किदि (उ० २९३ ) ति तनः । तिस्रो वाहिन्यः सैन्यविशेषः । तैस्त्रिभिश्चमूः । ताभिस्तिसृभिरनीकिनी । सेना सैन्यमानं । सर्वेषु यथा-श्रीभीमपृतनोत्खातरजोभिर्वैरिभूभुजा । फाल्गुनो मासपार्थयोः । नदीजेऽर्जुनवृक्षे च । फाल्गुनी पौर्णमासी अस्य फाल्गुनः । सास्यपौर्णमामीत्यण् (६।२।९८)। फल्गुनीषु जातः फल्गुनः । फल्गुन्याष्ट इति ( ६।३।१०६ ) टे । प्रज्ञादित्वात्स्वार्थेऽणि वा । मासे यथा-भवन्ति फाल्गुने मासि वृक्षशाखा विपल्लवाः । पार्थे यथा-अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः ।। ३८६ ॥ नदीजो विटमाक्षिको नाम धातुभेदः । फाल्गुनी पूर्णिमाभिदि । फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता फाल्गुनी । यथा-न फाल्गुनीपबंणि फल्गु दत्तम् । भवनं सदने भावे । भवन्त्यस्मिन्निति भूयते वा भक्नं । अनट सू धू भू इति अनो वा । सदने पुंक्लीबः । तत्र यथा-दृष्ट्वा दृष्ट्वा भवनवलभीतुंगवातायनस्थाम् । भंडनं कवचे युधि ।