________________
तृतीयः काण्डः
( १६९)
पावनः पावके सिल्हेऽध्यासे पावयितर्यपि । पावनी तु हरीतक्यां पाठीनो गुग्गुलद्रुमे ॥ ३८३ ॥ पाठके मीनभेदे च पिशुनः सूचके खले । कप्यासे पिशुना स्पृक्का स्यात्पिशुनं तु कुकुमम् ॥ ३८४ ।। पीतनं तु हरिताले पीतदारुणि कुकुमे । पीतनः पुनराम्राते पूतना तु हरीतकी ॥ ३८५ ॥
जलं नोरं । कृच्छ्रे सांतपनादिकम् । द्वयोर्यथा-वने मुनिः पावनपूतगात्रः ॥ ३८२ ॥ पावनः पावके सिल्हेऽध्यासे पावयितर्यपि । पावकोऽग्निः सिल्हो गंधद्रव्यं । अधिकमसारमस्यते क्षिप्यतेऽनेन अध्यासः । शूर्पमिति यावत् । पावयितरि वाच्यलिंगः । तत्र यथासंभावयति यान्येव पावनैः पादपांसुभिः । पावनी तु हरीतक्यां । हरीतकी पथ्या । पाठोनो गुग्गुलुद्रुमे । पाठके मीनभेदे च । पठति पाठीनः पठेर्णिदिति ( उ० २८७ ) ईनः ॥ ३८३ ॥ पाठके वाच्यलिंगः । तत्र यथा-नवीनः पाठीनो लुठति पदपीठे निजगुरोः । मीनभेदे यथा-मैनाकोऽपि गभीरनीरविलुठत्पाठीनपृष्टोल्लसच्छेवालांकुरकोटिकोटरकुटोकुड्यांतरे निवृतः । पिशुनः सूचके खले । कप्यासे । पिंसति पिशुनः । पिशिमिथिकुधिभ्यः ( उ० २९० ) उनः । सूचकखलयोर्वाच्यलिंगः । सूचक कथके यथा-पद्मभेदे पिशुनाः सिषेविरे गंधमादनवनांतमारुताः । खले. दुर्जने यथा-वद शुना पिशुनासदृशः कथं । कप्यासं कपिमुखं । पिशुना स्पृक्कां स्यात् । स्पृक्का गंधद्रव्यभेदः । पिशुनं तु कुंकुमं । यथा-कान्तोपभोगपिशुनं पिशुनं स्तनानाम् ॥ ३८४ ॥ पीतनं तु हरिताले पोतदारुणि कुंकुमे। पीतयति पोतनं । पीतदारु दार हरिद्रा त्रिष्वपि यथा-पीतं पीतनरेणुना । पीतनः