________________
(१६८) अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwwww
प्रज्ञानं बुद्धौ चिह्न च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥३८१।। पवनं पुनरापाके पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च पावनं मलकृच्छ्योः ॥३८२॥
परमात्मनि । महामात्रे । प्रधीयतेऽस्मिन् प्रधत्ते वा प्रधानं । अजहत् । क्लीबलिंगः । प्रकृतिः सत्त्वरजस्तमसां साम्यवस्था । तत्र उत्तमे च यथा-न महानयं न च बिभर्ति गुणसमतया प्रधानताम् । बुद्धौ परमात्मनि महामात्रे च यथा-वृत्तिः प्रधानानुगता जनस्य । प्रसूनं तु प्रसूते फलपुष्पयोः । प्रसूयते स्म प्रसूनं । सूयत्याद्योदित इति तस्य नः । प्रसूते वाच्यलिंगः । तत्र यथा-प्रसूनसूनुर्वनिता नितांतम् । फलपुष्पयोर्यथा-प्रसूनक्लुप्तं ददतः सदत्त॑वः । पुरे स्य वास्तव्यकुटुंबितां गताः ॥३८०।। प्रज्ञानं बुद्धौ चिह्न च । प्रज्ञायतेऽनेन प्रज्ञानं । बुद्धौ यथाप्रज्ञानमीदग्विधमस्ति यस्य । चिह्न यथा-प्रज्ञानेन वृषेण विद्धि गिरिशम् । स्यात्प्रसन्न प्रसादवत् । प्रसीदति स्म प्रसन्नं । वाच्यलिंगः । यथा-अपि प्रसन्न हरिणेषु ते मनः । प्रसन्ना तु मदिरायां । यथा-प्रसन्नामासन्नामपि दधति नो निर्मलधियः । पवनो वायुवल्लयोः। पुनाति पूयतेऽनेन वा पवनः। वायौ यथा-पवनश्च धूतनवनीपवनः । वल्लो निष्पाबः ॥३८१॥ पवनं पूनरापाके । आपाक: कुलालपाकस्थानं । तत्र यथा-पवने पावकं कोपि पापः भिपति निष्कृपः। पद्मिनी योषिदंतरे । अब्जेऽब्जिन्यां सरस्यां च । पद्मानि विद्यतेऽस्यां पमिनी । योषिदंतरं कामशास्त्रप्रसिद्धं । शेषेषु यथा-जावं मन्ये तुहिनमथिता पद्मिनी वान्यरूपाम् । पावनं जलकुच्छ्रयोः । पावयति पावनं ।