________________
तृतीयः काण्डः
(१६७)
निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च प्रधनं युधि दारुणे ॥३७९॥ प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि ।
महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः ॥३८०॥ न्मीलयंति । तोये यथा-पुलिनं नलिनं स्वल्पं । अंबुजे यथाचरणनलिनन्यासोदंचन्नवांकुरकोरकः । नलिनी पुनः । पद्माकरे गंगाब्जिन्योः । पद्माकरे यथा-नलिनी निगूढसलिला च यत्र सा स्थलमित्यदः । पतति यासु योधने । गंगायां यथाद्विपैर्मदजलासारैर्नलिनी मलिनीकृताः। अब्जिन्यां यथा-निरर्थक जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिंबम् । निधनं कुलनाशयोः । नियतं धनमत्र निवृत्तं धनमत्र वा निधनं । निपूर्वी धनिर्मरणार्थे इति सभ्याः । पुंक्लीबः । कुले यथा-कलचुरिनिधना धनानि दद्युः । नाशे यथा-कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः। अंतेऽपि । यथा-ध्वनंति धेनवो ग्रामनिधनेषु प्रतिव्रजम् ॥३७८॥ निदानं कारणे शुद्धौ तपसः फळयाचने । वत्सदाम्न्यवसाने च । डुदांक् दाने । दक्षिलवने देवशोधने वा यथायोगं करणे भावे च अनटि निदानं । कारणे यथा-अयथाबलमारंभो निदानं क्षयसंपदः । शुद्धौं यथा-कारभोजनपात्राणां निरानं वह्निना भवेत् । तपसः फलयाचने यथारागाभिभूतः संभूतो निदानमिति निर्ममे । वत्सदाम्नि यथानिदानसंदानितबालवत्सम् । अवसाने यथा-निदानेंतर्वक: सपदि मरुता सोऽप्यपहृतः । प्रधनं युधि दारुणे । धनिर्मरणा
र्थोत्र निधनवत् । प्रधन्यतेऽस्मिन्ननेन वा प्रधनं । वर्षादयः क्लीबे (५।३।२९) इत्यल् । द्वयोर्यथा-क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ॥२७९॥ प्रधानं प्रकृतौ बुद्धावुत्तमे