________________
अनेकार्थसंग्रहः सटोकः
हरिद्रा च धावनं तु गतौ शौचेऽथ नंदनम् । इन्द्रोद्याने नंदनस्तु तनये हर्षकारिणि ॥३७७।। मलिनं नलिकातोयें बुजेषु नलिनी पुनः ।
पद्माकरे गंगाब्जिन्योनिधनं कुलनाशयोः ॥३७८।। देवनान्कुरून् । धमनो नले । क्रूरे भस्त्राध्मायके च । धमिः सौत्रः। धमति धम्यते वा धमनः। यूसिरसीत्यनः। नलस्तृणविशेषः । अनल इत्यन्यः। यदाह-धमनोऽप्यनले भस्त्राध्मायकक्रूरयोः स्मृतः। क्रूरभस्वाध्मायकयोर्वाच्यलिंगः। तयोर्यथा-धमनानां मन:शुद्धिवर्त्तते न मनागपि । धमनी कंधरा सिरा। हरिद्रा च । धमति धमनिः। शदिवृत्यमीति अनिः। चां धमनी। कंधरायां यथा-चंच्वाक्षेपप्रहारैस्तुटितधमनिभिदिक्षु विक्षिप्यमाणेराशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि। सिरायां यथा-धमन्यो नाभिसंबद्धा विंशतिश्चतुरुत्तरा ॥३७५।। हरिद्रा रजनी अग्न्युद्दीपनभांडेऽपि मंखः । यथा-मुखेनोपधमेदग्निं धमन्यंतरितेन तु। धावनं तु गतौ शौचे। धाव्यते धावनं । गतौ वेगवति यथा-धने पुण्यैकसंसाध्ये मुधा धावनमर्थिनां । शौचे यथासाधुभिः प्रातरुत्थाय विधेयं दन्तधावनम् । अथ नंदनं । इन्द्रोद्याने। नंदति नन्दनं । यथा-अभिज्ञाः छेदपातानां क्रियन्ते नन्दनद्रुमाः । नन्दनस्तु तनये हर्षकारिणि । हर्षकारिणि वाच्यलिंगः । द्वयोर्यथा-पांडोनंदन नंदनं वनमिदम् ॥३७७॥ नलिनं नलिकातोयेंऽबुजेषु । नलति नलिनं। श्याकठीति (उ० २८२) इनः । अंबुजे पुंक्लीबः । गौडस्तु नलिनी पद्मिनी व्योमनिम्नगा कमलाकरे । नपुंसकं नलिकायां न पुंसि सरसीरुहे । इत्याह । नलिका अंतःशुषिरमुपकरणं । तत्र यथा-तलिननलिनवातैर्वह्निमु