________________
तृतीयः काण्ड:
(१६५)
द्विजन्मा वो रदे विप्रे दुर्नाम पुनरर्शसि । दुर्नामा दीर्घकोश्यां स्याद्देवनोऽक्षेऽथ देवनं ॥३७५।। व्यवहारे जिगीषायां क्रीडायां धमनो नले । करे भस्वाध्मायके च धमनी कंधरा सिरा ॥३७६।।
अहिंसा जिनदर्शने । उपलब्धिर्ज्ञानं । तत्र यथा-सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते । बुद्धिमतं तत्र यथा-इत्येकेषां हि दर्शनम् । शास्त्रे यथा-ज्ञाला षण्णां दर्शनानां अस्मिन् वाङ्मयसद्मनि । स्वप्ने यथा-दर्शनेऽद्य मया दृष्ट: सुप्तया निशि वल्लभः। लोचनं दृष्टिस्तत्र यथा-पापिना कुरुते बाला दर्शनस्पर्शनं मुहुः । विलोकनेपि । यथा-तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः। दंशनं वर्मदंशयोः। दंशयलि दश्यते वा दंशनं । वर्मणि यथाअंसर्दशनबंधुरैः। दंशे यथा-वंशदंशनभयेन धेनवः ॥३७४।। द्विजन्मा वौ रदे विप्रे। द्वे जन्मनी यस्य द्विजन्मा। तारकास्वपि मंखः । विः पक्षी। विप्रेत्युपलक्षणम् । तेन क्षत्रियवैश्ययोरपि । वौ विप्रे तारकासु च यथा-हिरण्यगर्भो भुवनांडकादिव क्षपाकरः क्षीरमहार्णवादिव । अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः। रदे यथा-सद्य एव तु शुद्धिः स्यादजातेषु द्विजन्मसु । दुर्नाम पुनरर्शसि । दुष्टं नामास्य पापरोगत्वात् दुर्नाम । क्लोबे । यथा-दुर्नामभिर्वामन एष जातः । दुर्नामा दीर्घकोश्यां स्यात् । दुष्टं नमति दुर्नामा । खात्मनात्मनिति (उ० ९१६) साधुः। स्त्रियां । दीर्घकोशी जलजंतुविशेषः । देवनोऽक्षे । दीव्यत्यनेन देवनः। अक्षः पाशकः । यथादेवनाच्छलकृतो हि किमत्र । अथ देवनं । व्यवहारे जिगीषायां क्रीअयां। दीव्यते देवनं ॥३७५।। त्रिष्वपि यथा-प्रकटीकृत