SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (१६४) अनेकार्थसंग्रहः सटीकः Annanommam तोदनं व्यथने तो दहनो दुष्टचेष्टिते । भल्लाते चित्रकेऽग्नौ च दमनो वीरपुष्पयोः ॥३७३॥ दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदंशयोः ॥३७४।। तपस्वी तापसे दीने । तपोऽस्त्यस्य तपस्वी। अस्तपोमायेति (७।२।४७) विन् । वायलिंगः। तापसे यथा-तपस्विभिर्या सुचिरेण सभ्यते । दीने यथा-किमनेन तपस्विना। तरस्वी वेगिर्रयोः। तरो वेगो बलं वाऽस्त्यस्य तरस्वी । बाच्यलिंगः । बेगिनि यथा-असकृदेव हितेन तरस्विना हरिहयाग्रशरेण धनुर्भृता। शूरे यथा-समरमूर्धनि सेन तरस्विना । तेमनं व्यंजने क्लेदे । तिम्यते तेमनं । व्यंजने यथा-संभारस्पृहणीयतेमनरसानास्वाच किंचित्ततः । क्लेदे यथा-स्वेदतेमनविलिग्नकंचुकाः । तेमनी चुल्लिभिद्यपि । यथा-खातास्तेमनि काश्चमूचरनरैरस्तोकपाकोत्सुकैः ॥३७२।। तोदनं व्यथने तोत्रे । तुद्यते तुदंत्यनेन वा तोदनं । व्यथने यथा-विधातव्यं न वाचापि बुधैः सज्जनतोदनम् । तोत्रे यथा-नालस्यतश्चलति तोदनताडितोऽपि । दहनो दुष्टचेष्टिते । भल्लाते चित्रकेऽग्नौ च । दहति दहनः। दुष्टचेष्टिते वाच्यलिंगः । तत्र भल्लाते चित्रके च यथा-दहनो दाहकः खलु । अग्नौ यथा-धूमांधितेन दहनेन न वीक्षितासि । दमनोबीरपुष्पयोः। दाम्यति दमयति वा दमनः । पुष्पे यथापूजाविधिदमनकेन चयः स्मरस्य तस्मिन्मधुः स भगवान् गुरुरंगनानां ॥३७३।। दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि । दृष्टिदृश्यतेऽनेन अस्मिन्वा दर्शनं । सप्तस्वर्थेषु दर्पणे यथा-अंधस्य किं दर्शनदर्शनेन । धर्मे यथा
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy