SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः (१६३) स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा। तलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥३७०॥ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्विसूर्येन्दुबुद्धकेशवशंभुषु ।।३७१।। तपस्वी तापसे दीने तरस्वी वेगिर्रयोः । तेमनं व्यंजने क्लेदे तेमनी चुल्लिभिद्यपि ॥३७२॥ जवन्यपट्यांमोषधीभिदि । अपटी प्रतिस्रोरा । तत्र यथा-समीरशिशिरः शिरस्सु बसतां सताम् । जवनिका निकामसुखिनाम् । जीवनस्तु पुत्रंजीवे । जीवयति जीवनः । नंद्यादित्वादनः । पुत्रंजीवो वृक्षविशेषः । जीवनं वृत्तिवारिणोः। जीव्यतेऽनेन जीवनं । वृत्तौ यथा-क्व यामः किं कुर्मो गृहिणि गहनो जीवनविधिः । वारिणि यथा-जगज्जीवति जीवनैः ।।३६९।। स्याज्जीवना तु मेदायां। मेदा ओषधिः । जीवनी तु मधुस्रवा। जीव्यतेऽनया जीवनो। अनट् । मधुस्रवा जीवन्ती। तलिनं विरले स्वच्छे । स्तोके । तलति तलिनं। विपिनेति (उ० २८४)। साधुः । वायलिंगः। विरले यथा-तलिनमलिनदंतः सोऽयमग्रे पिशाचः। स्वच्छ निर्मले यथा-सौधानां तलिनोदरेषु पतितम् । स्तोकेऽल्पे यथा-मृगेक्षणानां तलिनोदरीणां। निरंतरं विग्रहकर्शितानाम् । अथ तपनो रवौ। भल्लाते नरके ग्रीष्मे । तपति तपनः। नंद्यादित्वादनः। रवौ यथा-पंचमः पंचतपसस्तपनो जातवेदसां ॥३७०॥ नरके यथा-अवीचौ तपने कल्पं वसेयुर्ब्रह्मघातकाः । तलुनो यूनि मारुते । तरति तरुणः । यम्यजिशक्य (उ० २८८) इत्युनः । रुफिडादित्वाल्लत्वे तलुनः । यूनि वायलिंगः । तत्र यथानखैस्तलिनमौलिभिस्तलूनलून पीनस्तना। तमोघ्नो वह्निसूर्ये दुबुद्धकेशवशंभुषु । तमोऽधकारं पापं वा हन्ति तमोघ्नः । ब्रह्मादित्बादृक् । सर्वेषु यथा-निहन्तु विघ्नं जगतस्तमोघ्नः ॥३७१।।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy