SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ (१६२) अनेकार्थसंग्रहः सटोकः छर्दनोऽलंबुषे निबे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोश्छेदनं कर्त्तने भिदि ॥३६७॥ जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥३६८॥ वेग्यश्वे नोवृति जवन्यपट्यांमोषधोभिदि । जीवनस्तु पुत्रंजीवे जीवनं वृत्तिवारिणोः ॥३६९॥ वंशो वा ॥३६६।। छर्दनोऽलंबुषे निबे । छद्यतेऽनेन छर्दते वा छर्दनः । अलंबुषो राक्षसविशेषः । निंबो वृक्षः । छर्दनं वमनेऽपि च । छद्यते छर्दनं । यथा-दातव्यं छर्दनौषधं । छदनं पर्णगरुतोः । छादयति छदनं । विदन (उ० २७५) इति साधुः । पर्णे यथा-छदनांतरितातपा द्रुमाली । गरुति पक्षे यथा-चरन्ति चित्रच्छदनाः शिखण्डिनः । छेदनं कर्त्तने भिदि । छिद्यते छेदनं । कर्तने द्वैधीकरणे यथा-शरैः शरच्छेदनमाचरंति । भिदि विदारणे यथा-तुंदछेदननिर्यदंत्रविसरा वीराः क्रमन्ते पुरः ॥३६७।। जयनं विजयेऽश्वादिसंनाहे। जयो जीयतेऽनेन वा जयनं । घसिरसीत्यनः। अश्वादिसंनाहे यथा-जयति जयनशाला वाजिनां राजकीया। जघनं कटौ। स्त्रियाः श्रोणिपुरोभागे । हन्यतेऽस्मिन् जघनं । हनेर्घतजघौ चेत्यनः। (उ० २७२)। कटौ यथा-पृथुलपृथुलास्थूलस्थूलाकृता जघनस्थली स्त्रियाः। श्रोणिपुरोभागे यथा-ज्ञातास्वाद: पुलिनजघनां को विहातुं समर्थः । पश्चादर्थेऽपि मंखः । यथा-पश्यंति यन्न रिपवो जघनं हयानां । जवनो वेगिवेगयोः । वेग्यश्वे नीवृति। जवति जवनः । भूषाक्रोघेत्यनः । (५।२।४२) । जवतेऽनेन वा । वेगिनि वायलिंगः । तत्र यथातत्प्रार्थितं जवनवाजिगतेन राज्ञा ॥३६८।। नीवृत् देशः।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy