SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः ___ (१६१) चलनं कंपे चलनी चारोभिद्वस्त्रघर्घरी । चंदनो वानरभिदि श्रीखंडे चंदनी नदी ॥३६५।। चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चोलको तु नागरंगे किष्कुपर्वकरीरयोः ॥३६६॥ कंपितगोस्तना स्तनतटी । गोस्तनी हारहूरिका। हारहूरिका द्राक्षा। तत्र यथा-संजातो बत गोस्तनोफलरसस्तत्त्वेऽपि वस्त्वंतरम् । घट्टना चलनावृत्योः । घट्टनं घट्टना। चलनं कंपनं । आवृत्तिरावर्तनं । द्वयोर्यथा-रणद्भिराघट्टनया नभस्वतः। चलनः पादकंप्रयोः । चलतीत्येवं शील: चलनः । चाल्यशब्दार्थादकर्मकाद् (५।२।४३) । इत्यनः । पादे यथा-चपलचलनकाकप्रेरणोतुंगिताग्रं। कंप्रे वायलिंगः ॥३६४॥ चलनं कंपे। चल्यते चलनं । यथा-दिग्दतिरोमचलनं धरणी धुनोति । चलनी चारीभिद्वस्त्रघर्घरी । चलत्यनया चलनी । चारीभेदो भरतशास्त्रप्रसिद्धः । वस्त्रघर्घरी बालिकापरिधानविशेषः। चंदनो वानरभिदि । श्रीखंडे । चंदति चंदनः । धसिरसीत्यनः। श्रीखंडे पुंक्लीबः। तत्र यथा-यद्यपि चंदनविटपी विधिना फलपुष्पवजितो विहितः । चंदनी नदी। गौरादित्वाङ्डीः ।।३६५।। चेतनः स्यात्सहृदयप्राणिनोः । चेतयते चेतनः । सहृदये यथा-चेतनस्य न मतिविरुध्यते। प्राणिनि यथा-कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु । चेतना तु धीः । चेतनं चेतना। णिवेत्यासेत्यनः । (५।३।१११) । यथा-अवगच्छति मूढचेतमः प्रियनाशं हदि शत्यमपितम् । चोलकी तु नागरंगे किष्कुपर्वकरीरयोः। चोलकोऽस्त्यस्य चोलको । नागरंगकरीरौ वृक्षौ । किष्कपर्वाक्षु
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy