________________
अनेकार्थसंग्रहः सटीकः wwwwwwwwwwwwwwwwwwwwwwwwwww
अकार्ये गुह्यकौलीन्ये गहनं वनदुःखयोः । गह्वरे कलिले चापि गंधनं तु प्रकाशने ॥३६२।। सूचनोत्साहहिंसासु गर्जनं स्तनिते क्रुधे । गुंजनं विषदिग्धस्य पशोर्मासे रसोनके ॥३६३।। गोस्तनो हारभेदे स्याद्गोस्तनी हारहूरिका । घट्टना चलनावृत्योश्चलनः पादकंप्रयोः ॥३६४॥
दसितनयने मय्यविश्वासिनी भूः। अहिपशुपक्षिशुनां युधि युद्धे यथा-कौलीनकेलिसमये समये क्षितोऽभूत् ॥३६१॥ अकार्य कुत्सितं कर्म । गुह्यं गोप्यं । कोलीन्यं कुलीनत्वं । गहनं वनदुःखयोः। गह्वरे कलिले चापि । गाह्यते गहनं। विदनेति (उ० २७५) साधुः । दुःखकलिलयोर्वाच्यलिंगः । वने यथा-अविशदशनैविध्यगहनं । दुःखं दुरवगाहं। तत्र यथा-किं गहनं स्त्रीचरितम् । गह्वरे । यथा-गिरिगहनानि विगाहयंति मोहात्। कलिलमाकीर्णं तत्र यथा-शार्दूलगहनं वनम् । गंधनं तु प्रकाशने । सूचनोत्साहहिंसासु । गंधिण् अर्दने। गंध्यते गंधनं । प्रकाशनं प्रकटनं ॥३६२॥ सूचनं द्रोहाभिप्रायेण परदोषोद्घट्टनं । उत्साह उद्यमः । हिंसा प्राणिवधः। सर्वेषु यथा-तद्गंधनं प्रोद्धरकंधराणां नैवाद्रियन्ते सुजनाः खलानां । गर्जनं स्तनिते क्रुधे । गर्व्यते गर्जनं । द्वयोर्यथा-न बिभ्यति भटा यस्माद्विषां गर्जनतर्जनैः। गूजनं विषदिग्धस्य पशोर्मासे रसोनके । गृजु शब्दे । गूजति गूजनं । धसिरसीत्यनः । रसोनकः कंकभेदः । तत्र पुंक्लीबः । तत्र यथारसोनो लशुनो रिष्टो गुंजनो दीर्घपत्रकः ॥३६३॥ गोस्तनो हारभेदे स्यात् । गोस्तनाकृतित्वात् गोस्तनः । यथा-तस्याः