________________
तृतीयः काण्ड:
केतनं सदने चिने कृत्ये चोपनिमन्त्रणे । केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः || ३६०|| कौपीनं गुह्यदेशे स्यादकायें चीवरान्तरे । कौलीनं जनवादेऽहिपशुपक्षिशुनां युधि ।। ३६१ ||
(१५९)
वरुणे सर्पे मयूरे कुंडलान्विते - कुंडलमस्त्यस्य कुंडली शिखादित्वादन् । कुंडलान्विते वाच्यलिंगः । तत्र सर्पे च यथा - जात्यैव ये वायुभुजो विकर्णास्तान् भोगिनः कुंडलिनो वदंति ।। ३५९ ।। केतनं सदने चिह्न कृत्ये चोपनिमन्त्रणे । केत्यते ज्ञायतेऽनेन केतनं । सदने यथा-अकृतसकृतकृत्यः केतनं भूतभर्तुः । चिह्न पुंक्लीब: । तत्र यथा - समाललंबे वृषराजकेतनः । कृत्यमवश्यकार्यम् । तत्र उपनिमंत्रणे च यथा- पूर्वेद्युः केतनं कार्यं वृद्धानां गृहमेधिनाम् । सर्यर्वणि पुंनागे नागकेसरसिंहयोः । केसराः सन्त्यस्य केसरी । अर्वणि अश्बे यथा - सह्यः केन स केसरी | पुन्नागनागकेसरौ वृक्षौ । सिंहे यथा - केसरी निष्ठुरक्षिप्त मृगपूगो मृगाधिप: ।। ३६० ।। कौपीनं गुह्यदेशे स्यादकायें चीवरान्तरे । कूपप्रवेशनमर्हति कौपीनं । शालीनकौपीनार्त्विजीनमिति ( ६ । ४ । १८५ ) । इति साधुः । गुह्यं पायोपस्थं तच्च तद्देशश्च । तत्र यथा - कौपीनाच्छादनं वल्कमक्षसूत्रं जटाजिनम् | अकार्य पापकर्म यथा - उत्सर्पत्पीनकौपीननाशिताशेषविग्रहः । चीवरान्तरे गुह्याच्छादनवाससि यथा - कौपीनं वसनं कदन्नमशनं शय्या धरा पांसुरा । कौलीनं जनवादेऽहिपशुपक्षिशुनां युधि । अकार्ये गुह्यकौलीन्ये । कुलस्य जल्पः कौलीनं । कुलाजल्पे ( ७|१|८६ ) इति ईन । कुलीने भवं कुलीनस्य भावः कर्म युवादेरण | जनवादो लोकापवादः । तत्र यथा - मा कौलीना
तत्र