________________
(१५८)
अनेकार्थसंग्रहः सटीकः
कांचनं हेम्नि किंजल्के कांचनो नागकेसरे । उदुंबरे कांचनारे पुन्नागे चंपकेऽपि च ।।३५७॥ कांचनी तु हरिद्रायां कानीनः कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ।।३५८।। कुहनो मूषिके सेये कुहना दंभकर्मणि ।
कुंडली वरुणे सर्पे मयूरे कुंडलान्विते ॥३५९।। पन्नगे विटे। कंचुकमस्त्यस्य कंचुकी। जोंगकतरुरगरुवृक्षः। शेषेषु यथा-द्वारं रवद्भिरावृतं बहिरपि प्रक्लिन्मगंडैर्गजैरन्तः कंचुकिभिः स्फुरन्मणिशिखैरध्यासिता भूमयः ।।३५६॥ कांचनं हेम्नि किंजल्के । काम्यते कांचनं । विदनगगनेति (उ० २७५) साधुः । हेम्नि यथा-क्षणं वपुरपावृणु स्पृशतु कांचनं कलिकाम् । किंजल्के यथा-स्वर्णाबुजैः कांचनरेणुगभैः। कांचनो नागकेसरे । उदुंबरे कांचनारे पुंनागे चंपकेऽपि च । पंचापि वृक्षभेदाः । धत्तूरेऽपि ॥३५७।। कांचनी तु हरिद्रायां । गौरादित्वाड्डी: । हरिद्रा रजनी। कानीनः कन्यकासुते । कर्णे व्यासे । कन्यायाः अपत्यं कनीनः। कन्यायाः त्रिवेण्याः । कनीनत्रिवणं चेति साधुः । व्यासे यथा-वंदे वाल्मीककानीनौ । काननं तु ब्रह्मास्ये विपिने गृहे । कस्य ब्रह्मणः आननं काननं । कनति वा । विदनेति (उ० २७५) इति साधुः । विपिने यथा-शीतो वायुः परिणमयिता काननोदुंबराणाम् ॥३५८।। कुहनो मूषिके सेयॆ । कुहणि विस्मापने । कुहयते कुहनः । सह ईय॑या वर्तते सेयः । तत्र वायलिंगः । तत्र यथा-प्रियजानिर कुहनः । कुहना दंभकर्मणि । कुहनं कुहना। णिवेत्यासेत्यनः (५।३।१११) । यथा-नो विद्मः कुहनाविटेन बटुना किं तेन कारिष्यते । कुंडली