________________
तृतीयः काण्डः
(१५७)
कामिकामाभिरूपेषु कठिनं निष्ठुरोखयोः । कठिनी तु खटिका स्यात्कठिना गुडशर्करा ॥३५४॥ कर्तनं योषितां तूलसेवने च्छेदनेऽपि च । कंदनं रोदने ह्वाने कल्पनं कृप्तिकर्त्तने ॥३५५।। कल्पनेभसज्जायां कलापी प्लक्षकेकिनोः । कंचुको जोंगकतरौ महल्ले पन्नमे विटे ॥३५६।।
यथा-निकामं कामिनीनां हि प्रयाति कमने मनः ।।३५३।। कठिनं निष्ठुरोखयोः। कठति कठिनं । श्याकठीतीनः (उ० २८२)। निष्ठुरे वायलिंगः । तत्र यथा-न गूढान्तःकोपाकठिनहृदये संवृतिरियं । उखा भाजनविशेषः । तत्र यथा-मठे कठिनसंकटे प्रविलुठंति कष्टं शठाः । कठिनी तु खटिका स्यात् । यथाकठिन्या मारयन्त्येते गणयन्तो वणिक्शठाः । कठिना गुडशर्करा । गुडशर्करा शर्कराभेदः ॥३५४॥ कर्त्तनं योषितां तूलसेवनेच्छेदनेऽपि च । कृत्यते कर्त्तनं । तूलं निरस्थिकर्पासः तस्य सेवनं तत्र यथा-रंडाः कर्त्तनगोष्ठीषु न तिष्ठति कथां विना । छेदने यथा-प्रथयतितरां स्वैराचारप्रवर्तनकर्त्तनम् । क्रंदनं रोदने हाने । ऋदु रोदनाह्वानयोः । क्रंद्यते क्रंदनं । द्वयोर्यथा-किं क्रंदनेन न हि कोपि श्रृणोति शून्ये । कल्पनं कृप्तिकर्त्तने । कृप्यते कल्पनं । कृप्तौ यथा-तल्पकल्पनविधेरनंतरम् । कर्त्तने यथा-श्मश्रुकेशनखदैर्घ्यकल्पनम् ।।३५५॥ कल्पनेभसज्जायां । कल्पनं कल्पना। णिवेत्यासेत्यनः (५।३।१११)। यथा-कल्पनासज्जसेनानीनीतबंधुरसिंधुरः। कलापी प्लक्षकेकिनोः । कलापोऽस्त्यस्य कलापी । प्लक्षो वृक्षः। केकिनि यथा-कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु। कंचुकी जोंगकतरौ महल्ले