________________
(१५६)
अनेकार्थसंग्रहः सटोकः
मलोत्सर्गेप्यथोत्तानः सुप्तोन्मुखगभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ।।३५२॥ उद्धानमुद्गमे चुल्ल्यामुदानः पवनांतरे । सर्पभिधुदरावर्ते कमनोशोकपादपे ।।३५३॥
पत्रसंचयः। उद्गमः ऊधो भवनं तत्र यथा-उत्यानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला। वास्तु गेहं तस्यांतस्तत्र उद्यमें अंगने च यथा-सूत्थाने सुजने जनस्य रमते चेतो यथा सद्मनि । चैत्यं विहारः ॥३५१॥ मलोत्सर्गः पुरीषोत्सर्गः। अथोत्तानः सुप्तोन्मुख. गभीरयोः । उत्तन्यते उत्तानः । वाच्यलिंगः। सुप्तश्चासावुन्मुखश्च सुप्तोन्मुखस्तत्र यथा-डिम्भैरुत्तानशायिभिः। अगभीरमुन्नतमध्यं तत्र यथा - उत्तानपाणिद्वयसन्निवेशात्प्रफुल्लराजीवमिवांकमध्ये । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने । उद्यायते उद्यात्यनेन अस्मिन्वा उद्यानं । निःसरणं निर्गमनं । वनभेदो राजादिक्रीडास्थानं पुष्पवाटी वा। तत्र 'क्लीबः। यथा-विश्रांतः सन् व्रज नवनदीतीरजातानि सिंचन्नुद्यानानां नवजलकणे'थिकाजालकानि । प्रयोजनं प्रवृत्तिसाध्यं फलं ॥३५२॥ उद्धानमुद्गमे चुल्ल्यां । ओहांक् गतौ । डुधांग्क् धारणे च वा। उद्घायते उद्दधत्यत्र वा उद्घानं । उद्गमे यथा-उद्घानं धान्यसंततेः। चुल्ल्यां यथा-उद्धानाद्भांडमुत्क्षिप्य । उदानः पवनान्तरे । सर्पभिद्युदरावर्ते । ऊर्ध्वमानयति रसादीन् उदानः । क्वचिदिति डः। उदानिति वा पवनांतरे यथा-उदानो हृच्छिरांतरे । सर्पभित् सर्पभेदः । उदरावर्त उदररोगविशेषः। कमनोशोकपादपे । कामिकामाभिरूपेषु । कामयते कमनः । रम्यादिभ्यः कर्तरि (५।३।१२६) इत्यनट् । काम्यभिरूपयोर्वाच्यलिंगः । चतुर्वपि