________________
तृतीयः काण्डः
(१८३)
शकुनिः खगे करणमेदे कौरवमातुले । शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरंजयोः ॥ ४१६ ॥ शासन नृपदत्तोD शास्त्राशाखशास्तिषु । शिखरी कोट्टकोयष्टयो? मेऽपामार्गशैलयोः ॥४१७॥
नि कैविपिनशकुनैकू जितमितः ॥ ४१५॥ शकुनिः खगे करणभेदे कौरवमातुले । शक्नोति शकुनिः । शकेरुनिः । पुसि । खगे यथा-वणिक्चक्राक्रन्दविषि शकुनिकोलाहलाकुले । करणमेदो ज्योतिःशास्त्रप्रसिद्धः । तत्र यथा-शकुनिचतुष्पदनागे । कौरवमातुले यथा- शात्रवं शस्त्रसंघातैर्दुनोति शकुनिः पुनः । शतघ्नी तु वृश्चिकाल्यां शबभेदकरञ्जयोः । शतं हंति शतघ्नी । अचित्ते टक् । वृश्चिकाली ओषधिः । शस्त्रभेदः शस्त्रविशेषः । यदाह-शतघ्नी तु चतुस्ताला लोहकंटकसंचिता । तत्र यथाअयः संकुचितां रक्षः शतघ्नीमथ शत्रवे । करंजो वृक्षः ॥ ४१६ ॥ शासनं नृपदत्तोल् शास्त्राज्ञालेखशास्तिषु । शासत्यनेन शास्तिर्वा शासनं । पंचस्वर्थेषु । आज्ञा आदेशः । शास्तिः शिक्षणं पालनं वा । नृपदत्तोया यथा-स्वदत्तं परदत्तं वा यो हरदेवशासनम् । शास्त्रे यथा-शब्दशासनविदः समासयोर्विग्रहं व्यवसासुः स्वरेण ते । आज्ञायां शास्तौ च यथा-पाकशासनसमानशासनः । लेखे यथा-तमभ्यनदत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । शिखरी कोट्टकोयष्टयोद्रुमेऽपामार्गशैलयोः । शिखरमस्त्यस्य शिखरी । पंचस्वर्थेषु कोट्टो दुर्गं तत्र यथा-शिखरिशिखरमेतन्मालितं भूमिपालैः । कोयष्टिः पक्षिविशेषः । द्रुमे यथा-विवर्द्धन्ते कष्टं गिरिशिखरिणो वातविधुताः । अपामार्ग ओषधिः । शैले यथा