________________
तृतीयः काण्ड:
(१५३)
NNNNNNAAM
नेत्ररोगेऽर्जुनपार्थे हैहये केकीनि द्रुमे । मातुरेकसुते चार्जुन्युषा गोः कुट्टनी सरित् ॥३४५।। अंगनं प्रांगणे याने प्यंगना तु नितंबिनी । स्यादपानं गुदेऽपानस्तद्वायाजनं मसौ ॥३४६॥
अम्ले वायलिंगः। तत्र यथा-अम्लानमुखपंकजाः। किटीभेदो वर्णतरूस्तत्र यथा-ये चत्वारो दिनकरकुलक्षत्रसंतानमल्लीमालाम्लानस्तवकरुचिरा जज्ञिरे राजपुत्राः । अर्जुनं तृणे सिते । नेत्ररोगे। अयंतेऽर्जुनः। यम्यजीत्युनः। (उ० २८८) सिते गुणे पुंसि। तद्वति वाच्यलिंगः। तृणे यथा-सोमं यदि न वंदेयुः पूतोकानभिषुणुयुः । यदि पूतीकान्न लभेयुरर्जुनो न्यभिषुणुयुः । सिते शुभ्रे यथा-पिशंगमौंजीयुजमर्जुनच्छविम् ॥३४४।। अर्जुनं पार्थे हैहये केकीनि द्रुमे । मातुरेकसुते च । पार्थे यथा-कोदंडं यस्य गांडीवं स्पर्धते कस्तमर्जुनम् । हैहये यथास्मरसि यदर्जुनः कार्तवीर्यः। केकी मयूरः। द्रुमः ककुभाख्यः । तत्र यथा-उत्फलार्जुन सर्व वासितमरुत् । मातुर्जनन्या एक एव सुतः सोऽर्जुन इत्यभिधीयते । अर्जुन्युषा गौः कुट्टनी सरित् । उषा रात्रिः। गवि यथा- आस्ते पुजितमर्जुनीकुलमपस्तं वेपला शोषरे। कुट्टनी शभली । सरित् करतोयाख्या नदी ।।३४५।। अगनं प्रांगणे यानेऽपि। अगति अस्मिन् अंग्यते वा अंगनं । अनट । प्रांगणे यथा-अनंगांगनमंगनाः। यानं गमनं । अंगना तु नितम्बिनी। प्रशस्तमंगमस्त्यस्याः अंगना। नांगादेरिति नः। यथा-प्रायेणेते रमणविरहेष्वंगनानां विनोदाः । स्यादपानं गुदे । अपातीत्यनेन अपानं। व्यंजनाद्या । अपावृत्यनीयते वा क्वचिदिति डः। यथा-संकोच्यापानरंध्रे हुतवहसदृशं तंतु