________________
(१५२)
अनेकार्थसंग्रहः सटीकः
चित्तैकाग्र्यनियमयोनेि संन्निधिरंतिके । प्रत्यक्षे चाथ संसिद्धिः सम्यसिद्धिस्वभावयोः ॥३४३।। अयनं पथिगेहेऽर्कस्योदग्दक्षिणतो गतौ ।
अम्लानस्त्वमले किटीभेदेऽर्जुनं तृणे सिते ॥३४४॥ समाधिः स्यात्समर्थने । चित्तैकाग्र्यनियमयोमौंने। समाधानं समाधीयते मनोऽस्मिन्वा समाधिः। पुंसि । समर्थनं चोद्यपरिहार उत्तरमिति यावत् । यथा-अयं त्वदुक्ते तव पूर्वपक्षे समाधिराधीयत एष साधुः ।।३४२।। चित्तैकाग्र्ये यथा-सा भूधराणामधिपेन तस्यां समाधिमत्यां उदपादि भव्या। नियमे यथायदा फलं पूर्वतपः समाधिना न तावता लभ्यममंस्त मानिनी । मुनेर्भावः कर्म चा मौनं ध्यानवचनाभावादि । तत्र यथाआत्मेश्वराणां न हि जातु विघ्नाः। समाधिभेदप्रभवा भवन्ति । संनिधिरंतिके प्रत्यक्षे च । संनिधोयते सन्निधिः। पुंसि । अंतिके यथा-वीतविघ्नमनधेन भाविता संनिधिस्तव मुखेन मेऽधुना । प्रत्यक्षे यथा-यातः सन्निधिमस्य तीव्रतपसा देवो भवानीपतिः। अथ संसिद्धिः सम्यसिद्धिस्वभावयोः। सम्यक् सेधनं संसिद्धिः। स्त्रियां क्तिः। सम्यसिद्धी यथा-संसिद्धिसिद्धविभवाः मुनयः प्रयाताः। स्वभावे यथा-संसिद्धिरेषा सुजनस्य नित्यं परोपकारेषु हि यः प्रयत्नः। ॥३४३॥ अथ नान्ताः अयनं पथिगेहेऽर्कस्यो. दग्दक्षिणतो गौ। अयंतेऽम्मिन्निति अयनं । पथिगेहे यथा- किं वा मृगा मृगपतेरयनेष्वयंते । अर्कस्योदग्गतौ यथा-गंगायां च दिवा भूमावतीते चोत्तरायणे । दक्षिणगतौ यथा-अगस्तिचिह्नादयनास्समीपं । दिगुत्तरा भास्वति सनिवृत्ते । अम्लानस्त्वमले किंटीभेदे। न म्लायति स्म अम्लानः । क्तव्यंजनान्तस्थेति नत्वं ।