________________
तृतीयः काण्डः
(१५१)
विस्रब्धोऽनुद्भटे शान्ते विश्वस्तात्यर्थयोरपि । विवधो वीवो भारे पर्याहाराध्वनोरपि ॥३४॥ संबाधः संकटे योनौ संरोधः क्षेपरोधयोः ।
संनद्धो मिते व्यूढे समाधिः स्यात्समर्थने ॥३४२॥ पुष्पलता। भाषाविशेषे यथा- एकरूपा हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति । विबुधः पंडिते सूरे । विबुध्यते विबुधः । पंडिते वायलिंगः। द्वयोर्यथाजयत्यन्य स कोप्यध्वा भारत्याः खमिवाखिलः। क्षण्णोऽपि विबुधुर्बा विभात्यक्षुण्ण एव यः ॥३४०॥ विस्रब्धोऽनुद्भटे शान्ते विश्वस्तात्यर्थयोरपि । विस्रभते स्म विस्रब्धः। वायलिंगः। विश्वस्ते यथा- विस्रब्धः क्रियतां वराहपतिभिर्मुस्ताक्षितिः पल्वले । अत्यर्थे यथा-विस्रब्धं परिचुंब्य जातपुलकामालोक्य गंडस्थलीम् । विवधो वीवधो भारे पर्याहाराध्वनोरपि । विवध्यते विवधः । घञ्युपसर्गस्य बहुलमिति दीर्घत्वे वीवधः । विविधो वधोऽस्येति वा। पर्याहारतृणजलानादीनामन्यत आनयनं । भारे यथावहन्ति वीवधं मूर्ना न शास्त्रं जिहवया जडाः । पर्याहारे ध्वनि च यथा-निरुद्धवीवधासारप्रसारांगा इव व्रजम् । एवं विवाधोऽपि ॥३४१।। संबाधः संकटे योनौं। संबाधते संवाधः। सम्यक बाधोऽत्रेति वा। संकटे वायलिंगः । द्वयोर्यथा-करिहस्तेन संबाधे प्रविश्यांतविलोडिते। उपसर्पन्ध्वजः पुंसः । साधनान्तविराजते। संरोधः क्षेपरोधयोः । संरोधनं संरोधः क्षेपे यथायोधसंरोधदुर्धर्षः। रोधे यथा-अंभसामोघसंरोधः प्रतीपममनादिव। संनद्धो वमिते व्यूढे । संनह्यति स्म संनद्धः । वायलिंगः । बर्मिते यथा-संनद्ध इव केसरी । व्यूढं विपुलम् ।