________________
(१५०)
अनेकार्थसंग्रहः सटीकः
-
परिधि यज्ञियतरोः शाखायामुपसूर्यके । मागधो मगधोद्ध ते शुक्लनीरकबंदिनोः ॥३३९॥ वैश्यतः क्षत्रियापुत्रे मागधी तु स्यात्पिप्पली ।
यूथीभाषाविशेषश्च विबुधः पंडिते स्वरे ॥३४०।। नाशरोधयोः। निरोधनं निरोधः। नाशे यथा- स्थितिसर्गनिरोधकारिणा भवता विश्वजनीनमीदृशं । रोधे यथा-अन्तइचराणां मस्तां निरोधात् निवातनिष्कंपमिव प्रदीपम् । प्रसिद्धो भूषिते ख्याते । प्रसिध्यते प्रसिध्यति स्म वा प्रसिद्धः। वायलिंगः। द्वयोर्यथा-यथा प्रसिद्धर्मधुरं सरोरुहे जटाभिरप्येवमभूत्तदाननम् । प्रणिधिर्याचने चरे। प्रणिधानं प्रणिधीयते वा प्रणिधिः । पुंसि । याचने यथा-प्रणिधिवशादुपजातसत्प्रभावः। चरे यथा-श्रुतं मया मत्प्रणिधिः सवर्यः। प्रणिधानेऽपि ॥३३८॥ परिधि यज्ञियतरोः शाखायामुपसूर्यके । परितोऽग्नेश्चतुर्दिक्त्वं धीयते दर्भास्तरणवत् परिधिः। परिधीयते सूर्यादिरनेन वा। पुंसि । यज्ञियो यज्ञार्हस्तरूस्तस्य शाखा। तत्र यदाह-बहुप्रमाणाः परिधेरच्छिन्नाग्रोऽतिपत्रल: । उपसूर्यके सूर्यपरिवेषे यथा-परिधिमुक्त इवाहिमदीधितिः। चक्रप्रांतेऽपि। मागधो मगधोद्भते शुक्लजीरकबंदिनोः । वैश्यत: क्षत्रियापुत्रे । मगधेषु भवो मागधः। मगध्यति मगधः । ततः स्वार्थेऽणि वा मागधः। मगधोद्भ ते वायलिंगः। तत्र यथा-न मे ह्रिया शंसति किंचिदीप्सितं । स्पृहावतो वस्तुषु केषु मागधी । बंदिनि यथा-प्रणिजगदूरकाकि श्रावकस्निग्धकंठाः। परिणतिमिति रात्रेर्मागधा माधवाय ॥३३९॥ बैश्यतः क्षत्रियापुत्रे यथा-सूतमागधबंदिभिः। मागधी तु स्यात्पिप्पली। यूथी भाषाविशेषश्च । पिप्पली कणा। यूथी