________________
तृतीयः काण्डः
(१४९)
शम्यां व्यामे न्यग्रोधी तु मोहनाख्योषधीभिदि । वृषपर्यो निषधस्तु कठिने पर्वते स्वरे ॥३३७।। देशतद्राजयोश्चापि निरोधो नाशरोधयोः ।
प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥३३८॥ बंधोऽत्रेति वा केन बंध्यं वा पृषोदरादित्वात् । रुन्डे पुंक्लीबः। शेषयोः क्लीबे। रुन्डं अपशीर्ष वपुः। तत्र तुंडे च यथात्वदर्थीयक्रव्यात्कपिकुलकबंधव्यतिकरैः। करालेयं भूमि वनमयमद्यापि तनुते । अप्सु यथा-कबंधसंबन्धविवृद्धपादपं । कबंधो राहुरक्षसोः। राहौ यथा-कबंधो बाधते विधुम् । रक्षसि यथाबधनिधूतशापस्य कबन्धस्योपदेशतः। दुर्विधो दुर्जने निःस्वे । दुष्टा विधा क्रिया भोजनपिंडो वाऽस्य दुर्विधः । वाच्यलिंगः । दुर्जने यथा-दुविधेषु विनयो न शोभते । निःस्वे यथा-विविनक्ति न बुद्धि विधः स्वयमेव स्वहितं पृथग्जनः । न्यग्रोधो वटपादपे। शम्यां व्यामे । न्यक्रोहति न्यग्रोधः । लिहाद्यचि वीरुन्न्यग्रोधाविति (४।१।१२१) साधुः। न्यक्रुणद्धि वा । वटपादपे यथान्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते ॥३३६।। शमी वृक्षभेदः। व्यामस्तिर्यप्रसारितबाह्वन्तरं । तत्र यथान्यग्रोधमेयचतुरस्रनितंबबिंबा। न्यग्रोधी तु मोहनाख्यौषधीभिदि। वृषपयां। गौरादित्वाड्डी: । वृषपर्णी आखुपर्णी। निषधस्तु कठिने पर्वते स्वरे। देशतद्राजयोश्चापि । निष्यति निषधः । नेः स्यतेरधक् (उ० २५२) कठिने वायलिंगः। तत्र यथानिषिद्धं निषधं वचः । स्वरो निषधाख्यः। तत्र यथा-धैवतो निषधः। सप्ततंत्री कंठोद्भवाः स्वराः । पर्वते देशे तद्राजे च यथास नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः । अनूनसारं निषधान्नगेंद्रात्पुत्रं यमाहुनिषधाख्यमेव ॥३३७॥ निरोधो