________________
(१४८)
अनेकार्थसंग्रह सटीकः
AAAAAAAAAAAAAAAAAAP
संहननेऽप्युपाधिस्तु धर्मध्याने विशेषणे । कुटुंबव्यापृते छद्मन्युपधिव्याजचक्रयोः ॥३३५।। कबन्धं तुंडे रुंडेऽप्सु कबन्धो राहुरक्षसोः ।
दुविधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥३६६।। यथा-पयोधिमाविद्धचलज्जलाविलम्। विलंघ्य लंकां निकषा हनिष्यति । वक्रे यथा-आविद्धवलितजधनं। आबंधो भूषणे प्रेम्णि बंधे। आबध्यतेऽसौ अनेन वा आबंधनं इति वा आबंधः । भूषणे यथा-प्रभ्रष्टैः सरभसमभसोऽवगाहक्रीडाभिविदलितयूथिकापिशांगैः । आबंधैः सरसिहिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि। प्रेम्णि यथा-पुत्रदारनिराबंधः। बंधे यथा- प्रेमाबंधविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि । अथोत्सेध उच्छ्रये । संहननेऽपि । उत्सेधनं उर्ध्वं सिध्यत्यनेन वा उत्सेधः। पुंक्लीबः। उच्छ्रये यथा-बबन्ध बालारुणबभ्रुवल्कलं पयोधरोत्सेधविसीर्णसंहति ।।३ ४॥ संहनने शरीरे यथास्थुलोत्सेधव्यवहितरथस्यात्मनः कुंभकर्णः । उपाधिस्तु धर्मध्याने विशेषणे। कुटुंबव्यापृतेच्छद्मनि । उपाधीयते उपाधिः। चतुर्वर्थेषु पुंसि । धर्मध्याने यथा-विनोपाधेः शास्त्रं तृणतुषबुसप्रख्यमधुना विशेषणे यथा-उपाधिरहितः सोऽपि स्फटिको न विराजते । कुटुंबव्यापृते यथा-उपाधि धंते विविधविधिभिबाँधवजनाः । छानि यथा-चिद्रूपानंदमयो निःशेषोपाधिवर्जितः शुद्धः। उपधिाजचक्रयोः। उपधीयते उपधिः। पुंसि। व्याजे यथाअरिषु हि विजयार्थिनः क्षितीशा न विदधति सोपधिसंधिदूषणानि । चक्रं रथांगं ।।३३५॥ कबंध तुडे रुन्डेऽप्सु । कवते कूयते वा कबंध। कोरंध इति (उ० २५७) अंधः। कस्य शिरसो