________________
तृतीयः काण्ड:
(१४७)
जननी बाहुबलिनोऽप्यगाधोऽस्ताघरंध्रयोः । अवधिः स्यादवधाने कालसीमबिलेष्वपि ॥३३३॥ आनद्धं बद्धमुरजाधाविद्धः क्षिप्तवक्रयोः ।
आबंधो भूषणे प्रेम्णि बंधेऽथोत्सेध उच्छ्रये ॥३३४।। शरद्भवे यथा-आतपत्रीभवत्येते क्षणं शारदवारिदाः। शालीनोऽधृष्टः । अथ शारदी सप्तपर्णांबुपिपल्योः । सप्तपर्णा वृक्षभेदः। भंबुपिप्पली जलपिप्पली । मंखस्तु विष्वधृष्टनवे शुद्धौ शारदोऽपि शरद्भवे । अस्त्री संवत्सरे सप्तपूर्णीव शारदी पुनः । लांगली शारदादेवी । तत्र देव्यां यथा-शारदां शारदांभोदसितां हंसासनां नुमः। सुनंदा रोचनांगना। जननी बाहुबलिनोपि । सुष्टु नंदति सुनन्दा। रोचना रागद्रव्यं । अंगना स्त्री ॥३३२।। बाहुबलिन आदिनाथपुत्रस्य जनन्यां यथा-वनेचरान् गिरिवरान् दुर्मदान् स्वापदान्यपि। द्राक् खंजीभवतः पश्यत्सुनंदानंदनाज्ञया । अथ धान्ताः । अगाधोऽस्ताघरंध्रयोः । न गाधते अगाधः। अस्ताघे वायलिंगः । अस्ताघेऽलब्धमध्ये यथा-कियद्गाधमगाधं वा गजं पृच्छसरः सखे । रंध्रे यथा-दुष्टांधतमसाक्रांतादगाधान्मां समुद्धर। अवधिः स्यादवधाने कालसीमविलेष्वपि । अवधीयतेऽसौ अवधानं वा अवधिः। उपसर्गादः किरिति (५। ३ । ८७) किः। पुंसि। चतुर्वर्थेषु काले सीम्नि च यथा-शेषान्मासान्गमनदिवसस्थापितस्यावचेर्वा विन्यस्यंती भुवि गणनया देहलीदत्तपुष्पैः ॥३३३॥ आनद्धं बद्धमुरजादि। आनह्यते स्म आनद्धं । बद्धे वालिगः । तत्र यथा-भुजंगमानद्धजटाकलापम् । मुरजादौ यथा-ततं वीणादिकं वाद्यमानद्धमुरजादिकम् । आविद्धः क्षिप्तवत्रयोः। आविध्यते स्म आविद्धः। वायलिंगः। क्षिप्ते