________________
(१४६)
अनेकार्थसंग्रहः सटोकः
मुकुंदः पारदे रत्नविशेष गरुडध्वजे । मेनादः केकिनिच्छागे मार्जारे वरदः पुनः ॥३३०॥ प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका । विशदः पांडुरे व्यक्ते शारदो वत्सरे नवे ॥३३१॥ शरद्भवे पीतमुद्गरशालिनेऽप्यथ शारदी ।
सप्तपर्णांबुपिपल्योः सुनंदा रोचनांगना ॥३३२॥ माकंदः। यथा-माकन्दमंजरीपुंजपिंजरीकृतकाननः । माकन्द्यामलकी फले। माकन्द्याः फलं माकन्दी। दोरथाणिन इति मयट् । फल इति तस्य लुप्। हरीतक्यादित्वात्स्त्रीत्वं गोरादित्वाड्डीः ॥३२९॥ मुकुंद: पारदे रत्नविशेष गरुडध्वजे । मुंचति मुकुंदः । मुचेर्छः । कुंदक कुंदाविति डुकन्दः । त्रिष्वपि यथामुकुंदो वंद्यते न कैः। निधिविशेषेऽपि यथा-मुकुंदकुंदनीलाश्च चा स्वनिधयो न वा । मेनादः केकिनिच्छागे मार्जारे । मे इति नादोऽस्य मेनादः। त्रिष्वपि यथा-मेनादनादं स निशम्य बालः। वरदः पुनः । प्रसन्ने शान्तचित्ते च । वरं ददाति वरदः । वाच्यलिंगः ॥३३०।। प्रसन्नः कृतानुगृहः । द्वयोर्यथा-वृणुते वरदः शंभूरस्मत्संक्रमितैः। वरदा तु कुमारिका। वराय दीयते वरदा। क्वचिदिति डः। विशदः पांडुरे व्यक्त । विशीयते विशदः। पांडुरे गणे पुंसि । तद्वति व्यक्तौ च वायलिंगः । पांडुरे यथा-कुंदेंदुविशदं यशः। व्यक्ते यथा - हिमव्यपायाद्विशदाधराणाम् । शारदो वत्सरे नवे । शरद्भवे पीतमुद्गरशालिनेपि । शरदेव शारदः । प्रज्ञादित्वादण् । शरदि ऋतुविशेषे भव इति वा शारदः। भर्तुसंध्यादिरिणित्यण् । नवे शरद्भवे शालिने वायलिंगः । वत्सरे यथा-निपतन्त्येव बालानामष्टमे शारदे रदाः । नवे यथा- शारदर्भृगमदैः प्रमदाभिः ।।३३१।।