________________
तृतीयः काण्डः
(१४५)
NNNNNNNN
काव्यगुणे प्रह्लादस्तु निनादे दानवान्तरे । प्रतिपत्तु संवित्तिथौ प्रासादो राजमंदिरे ॥३२८।। देवतायतने चापि मर्यादा स्थितिसीमयोः ।
माकंदः स्यात्सहकारे माकन्द्यामलकीफले ॥३२९।। विचेतनैरपि । प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु । काव्यगुणे । प्रसदनं प्रसीदत्यनेन वा प्रसादः। अनुग्रहे यथा-तव प्रसादात्कुसुमायुधेऽपि । स्वास्थ्ये यथा-गहनमपररात्रप्राप्तबुद्धिप्रसादाः। कवय इव महीपाश्चिन्तयन्त्यर्थजातं । प्रसत्तौ यथा-प्रसादे वर्तस्व प्रकटय मुदं संत्यज रूपम् ।।३२७॥ काव्यगुणे यथा-शुष्कंधनाग्निवत् स्वच्छजलवत् सहसैव यः । व्याप्नोत्यन्यत् प्रासादोसौ सर्वत्र विहितस्थितिः । नैर्मल्येऽपि मंखः। यथा-प्रसादमादर्श इवान्तरात्मनि । प्रह्लादस्तु निनादे दानवान्तरे। प्रह्लादनं प्रह्लादते वा प्रह्लादः। दानवविशेषो 'हिरण्यकशिपोः पुत्रः। प्रतिपत्संवित्तिथौ । प्रतिपदनं प्रतिपद्यते वा प्रतिपत् । स्त्रियां । संविदि यथा-ईति सम्यक्प्रतिपदात्त्वयेद्रियजयः कृतः । तिथौ यथाप्रतिपत्पाठशीलस्य विद्येव तनुतां गता। प्रासादो राजमंदिरे । देवतायतने चापि । प्रसीदंति नयनमनांसि अस्मिन्निति प्रासादः । घञ्युपसर्गस्य बहुलमिति दीर्घः। राजमंदिरे यथा-हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः। प्रासादपंक्तिरियमुच्छिखरा विभाति ॥३२८।। देवतायतने यथा-प्रासादेषु त्रुटितशिखरस्वभ्रलब्धप्रवेशः। प्रातः प्रातस्तुहिनसलिलै: शार्वरैः स्नापितानि। मर्यादा स्थितिसी मयोः। मर्येति सीमार्थेऽव्ययं । मर्या ददाति मर्यादा । स्थितौ यथा-आर्याः समर्यादमुदाहरन्तु । सीमायां यथामर्यादामभिभवन्ति जलनिधयः । माकंदः स्यात्सहकारे । माकन्दते