________________
(१४४)
अनेकार्थसंग्रहः सटीकः
नलदा मांस्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानर्माल्योः निषादः श्वपचे स्वरे ॥३२६॥ निर्वादस्त्यक्तवादेऽपवादे च प्रमदो मुदि* । .
प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु ॥३२७॥ रन्ति तरसा यत्नेन संरक्षितम् । धनदो दातृगुह्यकौ । धनं ददाति धनदः । दातरि वायलिंगः। द्वयोर्यथा-धनदोसि धनाथिनाम् ॥३२५।। नलदा मांस्यां। नलं द्यति नलदा । अतो ड इति डः। मांसी गंधद्रव्यं । नलदमुशीरमकरन्दयोः । उशीरं वारिणीमूलं । मकरंदो मधु । नर्मदा रेवानर्माल्योः । नर्म द्यति-ददाति वा नर्मदा । रेवायां यथा-उद्देशोऽयं सरसकदलिश्रेणिशोभातिशायी। कुंजोत्कर्षां कुरितरमणीविभ्रमो नर्मदायाः। नर्माली नर्मसखी। निषादः श्वपचे स्वरे। निरीदति निषादः । वा ज्वलादीति णः। निषीदंति स्वरा अत्रेति वा । व्यंजनाद्या । श्वपचे यथा- मा निषाद प्रतिष्ठास्त्वमगमः शास्वती समाः। स्वरे स्वरविशेषे यथा-निषाद: सर्वसंधिस्थो ललाटस्थस्तु धैवतः ॥३२६।। निर्वादस्त्यक्तवादेऽपवादे च ।
र्गतो वादोऽस्य निर्वादः। निर्वदनं वा। त्यक्तवादे वायलिंगः। * यथा-निर्वादा वादिनः कृताः। अपवादोऽवर्णवादः । तत्र -खलु निर्वादकथायां वदितायत्खलु जनोऽपि स्यात् । प्रमदो
। प्रमदनं प्रमदः। संमदप्रमोदो हर्ष इत्यल् यथा-सृष्टा सितन विधिना निधना गुणानाम् । लोकत्रयीं प्रमदकंदमयीं विधातुं । प्रमदा खी। प्रमाद्यति प्रमदा। प्रकृष्टो मदोऽस्या इति वा। यथा-प्रमदाः पतिवम॑गाः। इति प्रतिपन्नं हि *मु० मुदि मत्तके।