________________
तृतीयः काण्ड:
गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ । गोष्पदं गोखुरस्वभ्रं गवां च गतिगोचरे ॥ ३२३॥ जलदो मुस्तके मेघे जीवदो रिपुवैद्ययोः । ग्रंथिपर्णे तमोनुत्तु शशिमार्तण्डवह्निषु ॥ ३२४ ॥ दारदो विषभेदे स्यात्पारदे हिंगुलेऽपि च । दायादो सुतसपिंडौ #धनदो दातृगुह्यकौ ॥ ३२५ ॥
(१४३)
तद्विलीयते ।। ३२२ ।। गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ । गां विन्दति गोविन्दः । निगवादे नाम्नीति शः । गवाध्यक्षे वासुदेये च यथा - गोविन्द तासु विहिता भवता यथार्था । बृहस्पती यथा - आदिदेश स गोविन्दं दानवोच्छित्तये हरिः । गोष्पदं गोखुरस्वभ्रे गवां च गतिगोचरे । गोः पदं गोष्पदं । वर्चस्कादित्वात्साधुः । गोखुरश्वभ्रं यथा - ववर्ष मेघः किल गोष्पदत्रं । गवां गतिगोचरे यथा-गोष्पदेषु विचरन्नपीयत ।। ३२३ || जलदो मुस्तमे । जलं दत्ते जलदः । मुस्तके मेघे नामत्वात् । मेघे यथा- कुतो वारामोघं बत जलद मोघं वितरसि । जोवदो रिपुवैद्ययो: । ग्रंथिपर्णे । जीवं द्यति ददाति वा जीवदः । रिपौ वैद्ये च यथा - आयुश्चेद्रोगिणां न स्याज्जीवदो जीवदस्तदा । ग्रंथिपर्णं गंधद्रव्यं । तमोनुत्तु शशिमार्तण्डवह्निषु । तमोंऽ - कारं नुदति तमोनुत् । त्रिष्वपि यथा - तमोनुदासंतमसं निरस्तं || ३२४ || दारदो विषभेदे स्यात्पारदे हिंगुलेऽपि च । दरत्सुदेशे भवो दारदः । त्रिष्वपि यथा - सदारदं मयति स्म वार्तिकः । दायादो सुतसपिंडौ । दायं भागमादत्ते दायादः । दश्चाज्ञइति डः । सुतः पुत्रः । ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योन्यस्य सपिंडौ । गोत्रिणावित्यर्थः । द्वयोर्यथा - दायादा धनमातृ*मु० दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे धनदो० ।
1