SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ (१५४) अनेकार्थसंग्रहः सटोकः mmmm रसांजनेऽक्तौ सौवीरेथांजनो दिग्मतंगजे । अंजना तु हनुमन्मातयंजनी लेप्ययोषिति ॥३४७॥ अवनं रक्षणप्रीत्योरर्यमा पितृदेवते । तरणौ सूर्यभक्तायांमशनिवज्रविद्युतोः ॥३४८॥ अरनिः कुपरे पाणौ सप्तकोष्टततांगुलौ । आसनं विष्टरे हस्तिस्कन्धे यात्रानिवर्तने ॥३४९।। वत्सूक्ष्मरूपम् । अपानस्तु तद्वायौ। यथा-अपानपवनोमन्या पृष्ट पृष्टांतपाष्णिगः। अंजनं मसौ । रसांजनेक्ती सौवीरे । अज्यतेऽने नाक्षिअनक्ति वा अंजनं। मसौ कज्जले यथा-वसानमेणाजिनमंजनधुति ॥३४६।। रसांजनमंजनविशेषः । अक्तिर्धात्वर्थमात्रं । तत्र यथा-मान्यः सैष मुनिः निरंजनमनाः। सौवीरं धातुविशेषः । अंजनो दिग्मतंगजे दिग्मतंगजे पश्चिमाशागजे । यथा-अंजनजनितविकाराधरेव दृष्टिर्न ते रम्या। अंजना तु हनुमन्मातरि । अनक्ति अंजना। नंद्यादि अने आप् । यथा-अंजनामगमद्वायुः। अंजनी लेप्ययोषिति । कर्तर्यनटि डीः । रंजितः पुंजितः श्रीभिरंजनीभिर्जनीजनः ॥३४८॥ अवनं रक्षणप्रीत्योः । अव्यते अवनं । द्वयोर्यथा - समुद्रकावेरवनेः कृतावनः । अर्यमा पितृदैवते । तरणौ सूर्यभक्तायां । अरीनामयति अर्यमा । श्वन्मातरिश्वन्निति (उ० ९०२) इति साधुः । पितर एव दैवते पितृदैवतं । तरणौ यथा-प्रोषितार्यमणं मेरोरंधकारस्तटीमिव । सूर्यभक्ता ओषधिः। अशनिवज्रविद्युतोः । अश्नुतेऽशनिः । शदिवृत्यमीत्यनिः। स्त्रीपुंसः। वज्र यथा- जहार चान्येन मयूरपक्षिणा शरेण शक्रस्य महाशनिध्वजम् । विद्युति यथा-अशनेरमृतस्य चोभयोर्वशिनश्चांबुधराश्च योनयः । करकेऽपि ॥३४८।। अरनिः कुपरे पाणौ
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy